Loading...
अथर्ववेद > काण्ड 2 > सूक्त 27

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 2/ सूक्त 27/ मन्त्र 6
    सूक्त - कपिञ्जलः देवता - रुद्रः छन्दः - अनुष्टुप् सूक्तम् - शत्रुपराजय सूक्त

    रुद्र॒ जला॑षभेषज॒ नील॑शिखण्ड॒ कर्म॑कृत्। प्राशं॒ प्रति॑प्राशो जह्यर॒सान्कृ॑ण्वोषधे ॥

    स्वर सहित पद पाठ

    रुद्र॑ । जला॑षऽभेषज । नील॑ऽशिखण्ड । कर्म॑ऽकृत् । प्राश॑म् । प्रति॑ऽप्राश: । ज॒हि॒ । अ॒र॒सान् । कृ॒णु॒ । ओ॒ष॒धे॒ ॥२७.६॥


    स्वर रहित मन्त्र

    रुद्र जलाषभेषज नीलशिखण्ड कर्मकृत्। प्राशं प्रतिप्राशो जह्यरसान्कृण्वोषधे ॥

    स्वर रहित पद पाठ

    रुद्र । जलाषऽभेषज । नीलऽशिखण्ड । कर्मऽकृत् । प्राशम् । प्रतिऽप्राश: । जहि । अरसान् । कृणु । ओषधे ॥२७.६॥

    अथर्ववेद - काण्ड » 2; सूक्त » 27; मन्त्र » 6

    टिप्पणीः - ६–रुद्र। अ० १।१९।३। रुत्+र। रु गतौ, वधे–क्विप्, तुक् आगमः। रवते गच्छति जानाति येनेति रुत्, ज्ञानम्। रा दाने–क। यद्वा। मत्वर्थे र प्रत्ययः। ज्ञानदाता ज्ञानवान् वा रुद्रः। यद्वा। रवते। हिनस्तीति रुत्, दुःखम्। रुत् रवते नाशयतीति रुत्+रु वधे–ड। दुःखनाशको रुद्रः। तत्संबुद्धौ। जलाषभेषज। जनी–ड+लष इच्छायाम्–घञ्। जैः जातैः लष्यते, इति जलाषम्। ततो भिषज् चिकित्सायां सुखने–अच्। जलाषं भेषजं च सुखनाम–निघ० ३।६। जलाषं सुखकरं भेषजं यस्य। हे सुखप्रदौषधयुक्त। नीलशिखण्ड। स्फायितञ्चिवञ्चि०। उ० २।१३। इति णीञ् प्रापणे, रक्। रस्य लः। नीयते प्राप्यते इति नीलः, निधिभेदः। संख्याविशेषो वा। यद्वा। नि+इल गतौ–क। नीलः–नीडः निवासः। अण्डन् कृसृभृवृञः। उ० १।१२९। इति शिखि गतौ–अण्डन्, स च कित्। नीलानां निधीनां निवासानां वा शिखण्डः प्राप्तिर्यस्मात् नीलशिखण्डः। हे निधीनां निवासानां वा प्रापक ! कर्मकृत्। कर्म+कृञ्–क्विप्, तुक् च। कर्माणि कृत्यानि करोतीति सः। हे कृत्यकुशल ! अन्यद् गतम् ॥

    इस भाष्य को एडिट करें
    Top