अथर्ववेद - काण्ड 2/ सूक्त 27/ मन्त्र 3
सूक्त - कपिञ्जलः
देवता - ओषधिः
छन्दः - अनुष्टुप्
सूक्तम् - शत्रुपराजय सूक्त
इन्द्रो॑ ह चक्रे त्वा बा॒हावसु॑रेभ्य॒ स्तरी॑तवे। प्राशं॒ प्रति॑प्राशो जह्यर॒सान्कृ॑ण्वोषधे ॥
स्वर सहित पद पाठइन्द्र॑: । ह॒ । च॒क्रे॒ । त्वा॒ । बा॒हौ । असु॑रेभ्य: । स्तरी॑तवे । प्राश॑म् । प्रति॑ऽप्राश: । ज॒हि॒ । अ॒र॒सान् । कृ॒णु॒ । ओ॒ष॒धे॒ ॥२७.३॥
स्वर रहित मन्त्र
इन्द्रो ह चक्रे त्वा बाहावसुरेभ्य स्तरीतवे। प्राशं प्रतिप्राशो जह्यरसान्कृण्वोषधे ॥
स्वर रहित पद पाठइन्द्र: । ह । चक्रे । त्वा । बाहौ । असुरेभ्य: । स्तरीतवे । प्राशम् । प्रतिऽप्राश: । जहि । अरसान् । कृणु । ओषधे ॥२७.३॥
अथर्ववेद - काण्ड » 2; सूक्त » 27; मन्त्र » 3
सूचना -
कृपया अस्य मन्त्रस्यार्थम् आर्य(हिन्दी)भाष्ये पश्यत।
टिप्पणीः - ३–इन्द्रः–अ० १।२।३। परमैश्वर्यवान् महाप्रतापी पुरुषः। ह। हन हिंसागत्योः–ड। प्रसिद्धम्। चक्रे। कृञ्–लिट्। कृतवान्। त्वा। त्वाम्। ओषधिम्। बाहौ। कृवापाजिमि०। उ० १।१। इति वह प्रापणे, यद्वा, वाह यत्ने–उण्। यद्वा, अर्जिदृशिकमि०। उ० १।२७। इति वाधृ विहतौ–कु, धस्य हः। वकारबकारयोरेकत्वम्। भुजे। असुरेभ्यः। सुसूधाञ्गृधिभ्यः क्रन्। उ० २।२४। इति षु ऐश्वर्यप्रसवयोः–क्रन्। यद्वा, सुर दीप्त्यैश्वर्ययोः–क प्रत्ययः। देवविरोधिभ्यः। अपण्डितेभ्यः। राक्षसेभ्यः सकाशात्। (असुरेभ्यस्तरीतवे) वा शरि। पा० ८।३।३६। खर्परे शरि वा लोपो वक्तव्यः। वार्तिकम्। इति विसर्गलोपः। स्तरीतवे। तुमर्थे सेसेनसेऽसे०। पा० ३।४।९। इति स्तृ प्रीतिरक्षाप्राणनेषु [शब्दकल्पद्रुमकोषे] तवे प्रत्ययः। रक्षितुम् ॥
इस भाष्य को एडिट करें