अथर्ववेद - काण्ड 2/ सूक्त 8/ मन्त्र 3
सूक्त - भृग्वङ्गिराः
देवता - वनस्पतिः, यक्ष्मनाशनम्
छन्दः - पथ्यापङ्क्तिः
सूक्तम् - क्षेत्रियरोगनाशन
ब॒भ्रोरर्जु॑नकाण्डस्य॒ यव॑स्य ते पला॒ल्या तिल॑स्य तिलपि॒ञ्ज्या। वी॒रुत्क्षे॑त्रिय॒नाश॒न्यप॑ क्षेत्रि॒यमु॑च्छतु ॥
स्वर सहित पद पाठब॒भ्रो: । अर्जु॑नऽकाण्डस्य । यव॑स्य । ते॒ । प॒ला॒ल्या । तिल॑स्य । ति॒ल॒ऽपि॒ञ्ज्या । वी॒रुत् । क्षे॒त्रि॒य॒ऽनाश॑नी । अप॑ । क्षे॒त्रि॒यम् । उ॒च्छ॒तु॒ ॥८.३॥
स्वर रहित मन्त्र
बभ्रोरर्जुनकाण्डस्य यवस्य ते पलाल्या तिलस्य तिलपिञ्ज्या। वीरुत्क्षेत्रियनाशन्यप क्षेत्रियमुच्छतु ॥
स्वर रहित पद पाठबभ्रो: । अर्जुनऽकाण्डस्य । यवस्य । ते । पलाल्या । तिलस्य । तिलऽपिञ्ज्या । वीरुत् । क्षेत्रियऽनाशनी । अप । क्षेत्रियम् । उच्छतु ॥८.३॥
अथर्ववेद - काण्ड » 2; सूक्त » 8; मन्त्र » 3
सूचना -
कृपया अस्य मन्त्रस्यार्थम् आर्य(हिन्दी)भाष्ये पश्यत।
टिप्पणीः - ३–बभ्रोः। कुर्भ्रश्च। उ० १।२२। इति भृञ् धारणपोषणयोः–कु, द्वित्वं च। बिभर्ति भरति वा बभ्रुः। पोषकस्य अर्जुनकाण्डस्य। अर्जेर्णिलुक् च। उ० ३।५८। इति अर्ज उपार्जने=अलब्धसम्पादने–उनन्। अर्जुनम्=रूपम्–निघ० ३।७। ततः क्वादिभ्यः कित्। उ० १।११५। इति कण शब्दे गतौ च–ड। डस्य इत्वं न। अनुनासिकस्य क्वि०। पा० ६।४।१५। इति दीर्घः। श्वेतस्तम्भस्य। परिपक्वस्य नवीनस्य चेति यावत्। यवस्य। यूयते बलेन। यु मिश्रणे–अप्। स्वनामख्यातधान्यस्य। धान्यराजस्य। ते। तव। ईश्वरदत्तस्य। पलाल्या। तमिविशिविडिमृणिकुलिकपिपलिपञ्चिभ्यः कालन्। उ० १।११८। इति पल रक्षणे–कालन्। ङीप्। पालयतीति पलाली। पालनशक्त्या। तिलस्य। इगुपधज्ञाप्रीकिरः कः। पा० ३।१।१३५। इति तिल गतौ, स्रिग्धीभावे च–क। स्वनामख्यातशस्यस्य। होमधान्यस्य। तिलपिञ्ज्या। सर्वधातुभ्य इन्। उ० ४।११८। इति पिजि हिंसाबलादाननिकेतनेषु–इन्। तिलस्य स्नेहशक्त्या। अन्यद्गतम् ॥
इस भाष्य को एडिट करें