अथर्ववेद - काण्ड 2/ सूक्त 8/ मन्त्र 4
सूक्त - भृग्वङ्गिराः
देवता - वनस्पतिः, यक्ष्मनाशनम्
छन्दः - विराडनुष्टुप्
सूक्तम् - क्षेत्रियरोगनाशन
नम॑स्ते॒ लाङ्ग॑लेभ्यो॒ नम॑ ईषायु॒गेभ्यः॑। वी॒रुत्क्षे॑त्रिय॒नाश॒न्यप॑ क्षेत्रि॒यमु॑च्छतु ॥
स्वर सहित पद पाठनम॑: । ते॒ । लाङ्ग॑लेभ्य: । नम॑: । ई॒षा॒ऽयु॒गेभ्य॑: । वी॒रुत् । क्षे॒त्रि॒य॒ऽनाश॑नी । अप॑ । क्षे॒त्रि॒यम् । उ॒च्छ॒तु॒ ॥८.४॥
स्वर रहित मन्त्र
नमस्ते लाङ्गलेभ्यो नम ईषायुगेभ्यः। वीरुत्क्षेत्रियनाशन्यप क्षेत्रियमुच्छतु ॥
स्वर रहित पद पाठनम: । ते । लाङ्गलेभ्य: । नम: । ईषाऽयुगेभ्य: । वीरुत् । क्षेत्रियऽनाशनी । अप । क्षेत्रियम् । उच्छतु ॥८.४॥
अथर्ववेद - काण्ड » 2; सूक्त » 8; मन्त्र » 4
सूचना -
कृपया अस्य मन्त्रस्यार्थम् आर्य(हिन्दी)भाष्ये पश्यत।
टिप्पणीः - ४–नमस्ते। नमःस्वस्तिस्वाहास्वधाऽलंवषड्योगाच्च। पा० ३।२।१६। इति चतुर्थी। तुभ्यं नमस्कारः। लाङ्गलेभ्यः। लङ्गेर्वृद्धिश्च। उ० १।१०८। इति लगि गतौ–कलच्, वृद्धिश्च। लङ्गन्ति प्राप्नुवन्ति, अन्नादिकं येन तल्लाङ्गलम्। हलानां हिताय दृढत्वाय। ईषायुगेभ्यः। ईष गतिहिंसादर्शनेषु–क। टाप्। ईषा लाङ्गलदण्डः। उञ्छादीनां च। पा० ६।१।१६०। इति युज योगे–घञ्, अगुणत्वं निपात्यते। युज्येते बलीवर्दौ अस्मिन्निति युगो युगं वा रथहलाद्यङ्गम्। ईषाश्च युगानि च तेभ्यः। हलस्य दण्डयुगानां दृढत्वाय। अन्यद् गतम् ॥
इस भाष्य को एडिट करें