अथर्ववेद - काण्ड 2/ सूक्त 9/ मन्त्र 1
सूक्त - भृग्वङ्गिराः
देवता - वनस्पतिः, यक्ष्मनाशनम्
छन्दः - विराट्प्रस्तारपङ्क्तिः
सूक्तम् - दीर्घायु प्राप्ति सूक्त
दश॑वृक्ष मु॒ञ्चेमं रक्ष॑सो॒ ग्राह्या॒ अधि॒ यैनं॑ ज॒ग्राह॒ पर्व॑सु। अथो॑ एनं वनस्पते जी॒वानां॑ लो॒कमुन्न॑य ॥
स्वर सहित पद पाठदश॑ऽवृक्ष । मु॒ञ्च । इ॒मम् । रक्ष॑स: । ग्राह्या॑: । अधि॑ । या । ए॒न॒म्। ज॒ग्राह॑ । पर्व॑ऽसु । अथो॒ इति॑ । ए॒न॒म् । व॒न॒स्प॒ते॒ । जी॒वाना॑म् । लो॒कम् । उत् । न॒य॒ ॥९.१॥
स्वर रहित मन्त्र
दशवृक्ष मुञ्चेमं रक्षसो ग्राह्या अधि यैनं जग्राह पर्वसु। अथो एनं वनस्पते जीवानां लोकमुन्नय ॥
स्वर रहित पद पाठदशऽवृक्ष । मुञ्च । इमम् । रक्षस: । ग्राह्या: । अधि । या । एनम्। जग्राह । पर्वऽसु । अथो इति । एनम् । वनस्पते । जीवानाम् । लोकम् । उत् । नय ॥९.१॥
अथर्ववेद - काण्ड » 2; सूक्त » 9; मन्त्र » 1
सूचना -
कृपया अस्य मन्त्रस्यार्थम् आर्य(हिन्दी)भाष्ये पश्यत।
टिप्पणीः - १–दशवृक्ष। कनिन् युवृषितक्षिराजि०। उ० १।१५६। इति दश दशि दीप्तौ, दर्शने, दंशने च–कनिन्, पक्षे नकारलोपः। स्नुव्रश्चिकृत्यृषिभ्यः कित्। उ० ३।६६। इति व्रश्चू छेदने स प्रत्ययः कित्। अथवा। इगुपधज्ञाप्रीकिरः कः। पा० ३।१।१३५। इति वृक्ष वरणे क। वृश्चति क्लेशम्, वृक्षते वृणोति स्वभक्तान्, व्रियते वा सर्वैः स वृक्षः। दशानां दीप्यमानानां दर्शकानां दर्शनीयानां विदुषां [अथवा दंशकानां दुष्टस्वभावानामपि] क्लेशछेदक स्वीकारक वा। अथवा दशसु दिक्षु स्वीकरणीय। मुञ्च। मोचय। इमम्। जीवम्। माम् इत्यर्थः। रक्षसः। राक्षसस्य, अज्ञानस्य। ग्राह्याः। विभाषा ग्रहः। पा० ३।१।१४३। इति ग्रह आदाने–ण। जातेरस्त्रीविषयादयोपधात् पा० ४।१।६३। इति ङीप्। यद्वा। वसिवपियजि०। उ० ४।१२५। इति ग्रह–इञ्। गृह्णातीति ग्राहो ग्राही ग्राहिर्वा जलजन्तुविशेषो वा। ग्रहणशीलपीडायाः सकाशात्। जग्राह। गृहीतवती। पर्वसु। स्नामदिपद्यर्तिपॄशकिभ्यो वनिप्। उ० ४।११३। इति पॄ पूर्तौ पालने च–वनिप्। शरीरग्रन्थिषु। अथो एनम्। ओत्। पा० १।१।१६। इत्योदन्तो निपातः प्रगृह्यः। वनस्पते। अ० १।१२।३। वन+पतिः सुट् च। वनस्य संभजनीयस्य शास्त्रस्य पालक–इति श्रीमद्दयानन्दभाष्ये–यजु० २७।२१। वनानां पाता वा पालयिता वा वनं वनोतेः–निरु० ८।३। हे सेवनीयगुणस्य रक्षक परमेश्वर। जीवानाम्। जीवतीति जीवः। इगुपधज्ञाप्रीकिरः कः। पा० ३।१।१३५। इति जीव प्राणे–क। प्राणिनाम्। लोकम्। लोक ईक्षे–घञ्। भुवनं स्थानम्। उन्नय। ऊर्ध्वं प्रापय। द्विकर्मको धातुः ॥
इस भाष्य को एडिट करें