Sidebar
अथर्ववेद - काण्ड 20/ सूक्त 10/ मन्त्र 1
उदु॒ त्ये मधु॑मत्तमा॒ गिर॒ स्तोमा॑स ईरते। स॑त्रा॒जितो॑ धन॒सा अक्षि॑तोतयो वाज॒यन्तो॒ रथा॑ इव ॥
स्वर सहित पद पाठउत् । ऊं॒ इति॑ । त्ये । मधु॑मत्ऽतमा: । गिर॑: । स्तोमा॑स: । ई॒र॒ते॒ ॥ स॒त्रा॒जित॑: । ध॒न॒ऽसा: । अक्षि॑तऽऊतय: । वा॒ज॒ऽयन्त॑: । रथा॑:ऽइव ॥१०.१॥
स्वर रहित मन्त्र
उदु त्ये मधुमत्तमा गिर स्तोमास ईरते। सत्राजितो धनसा अक्षितोतयो वाजयन्तो रथा इव ॥
स्वर रहित पद पाठउत् । ऊं इति । त्ये । मधुमत्ऽतमा: । गिर: । स्तोमास: । ईरते ॥ सत्राजित: । धनऽसा: । अक्षितऽऊतय: । वाजऽयन्त: । रथा:ऽइव ॥१०.१॥
अथर्ववेद - काण्ड » 20; सूक्त » 10; मन्त्र » 1
सूचना -
कृपया अस्य मन्त्रस्यार्थम् आर्य(हिन्दी)भाष्ये पश्यत।
टिप्पणीः - मन्त्र १, २ ऋग्वेद में है-८।३।१, १६, साम० उ० ६।१।६ और आगे हैं-अ० २०।९।१, २ तथा म० १ साम० पू० ३।६।९ में भी है ॥ १−(उत्) ऊर्ध्वम् (उ) चार्थे (त्ये) ते (मधुमत्तमाः) अतिशयेन मधुराः (गिरः) वाण्यः (स्तोमासः) स्तोत्राणि (ईरते) गच्छन्ति (सत्राजितः) सत्रा सत्यनाम-निघ० ३।१०। सत्रा सत्येन जेतारः (धनसाः) जनसनखनक्रमगमो विट्। पा० ३।२।६७। षण संभक्तौ-विट्। विड्वनोरनुनासिकस्यात्। पा० ६।४।४१। इत्यात्वम्। धनानां संभक्तारः। धनप्रदाः (अक्षितोतयः) अक्षीणरक्षणाः (वाजयन्तः) वाज-क्यच्, शतृ। वाजं बलमिच्छन्तः (रथाः) युद्धयानानि (इव) यथा ॥
इस भाष्य को एडिट करें