Loading...
अथर्ववेद > काण्ड 20 > सूक्त 9

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 20/ सूक्त 9/ मन्त्र 4
    सूक्त - मेध्यातिथिः देवता - इन्द्रः छन्दः - प्रगाथः सूक्तम् - सूक्त-९

    येना॑ समु॒द्रमसृ॑जो म॒हीर॒पस्तदि॑न्द्र॒ वृष्णि॑ ते॒ शवः॑। स॒द्यः सो अ॑स्य महि॒मा न सं॒नशे॒ यं क्षो॒णीर॑नुचक्र॒दे ॥

    स्वर सहित पद पाठ

    येन॑ । स॒मु॒द्रम् । असृ॑ज:। म॒ही: । अ॒प: । तत् । इ॒न्द्र॒ । वृष्णि॑ । ते॒ । शव॑: ॥ स॒द्य: । स: । अ॒स्य॒ । म॒हि॒मा । न । स॒म्ऽनशे॑ । यम् । क्षो॒णी: । अ॒नु॒ऽच॒क्र॒दे॥९.४॥


    स्वर रहित मन्त्र

    येना समुद्रमसृजो महीरपस्तदिन्द्र वृष्णि ते शवः। सद्यः सो अस्य महिमा न संनशे यं क्षोणीरनुचक्रदे ॥

    स्वर रहित पद पाठ

    येन । समुद्रम् । असृज:। मही: । अप: । तत् । इन्द्र । वृष्णि । ते । शव: ॥ सद्य: । स: । अस्य । महिमा । न । सम्ऽनशे । यम् । क्षोणी: । अनुऽचक्रदे॥९.४॥

    अथर्ववेद - काण्ड » 20; सूक्त » 9; मन्त्र » 4

    टिप्पणीः - ४−(येन) शवसा। बलेन (समुद्रम्) जलौघम् (असृजः) त्वं सृष्टवान् (महीः) महतीः। शक्तिशालिनीः (अपः) जलानि (तत्) तादृक् (इन्द्र) हे परमैश्वर्यवन् जगदीश्वर (वृष्णि) पराक्रमयुक्तम् (ते) तव (शवः) बलम् (सद्यः) इदानीमपि (सः) (अस्य) इन्द्रस्य। परमेश्वरस्य (महिमा) महत्त्वम् (न) निषेधे (संनशे) नशत्, व्याप्तिकर्मा-निघ० २।१८। कृत्यार्थे तवैकेन्केन्यत्वनः। पा० ३।४।१४। नश व्याप्तौ-केन् प्रत्ययः। सम्यक् प्रापणीयः (यम्) इन्द्रम् (क्षोणीः) वीज्याज्वरिभ्यो निः। उ० ४।४८। टुक्षु शब्दे-नि, ङीप्। क्षोणी पृथिवीनाम-निघ० १।१। क्षोण्यः। पृथिव्यः। लोकाः (अनुचक्रदे) निरन्तरं क्रन्दन्ति स्म ॥

    इस भाष्य को एडिट करें
    Top