Loading...
अथर्ववेद > काण्ड 20 > सूक्त 9

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 20/ सूक्त 9/ मन्त्र 2
    सूक्त - नोधाः देवता - इन्द्रः छन्दः - त्रिष्टुप् सूक्तम् - सूक्त-९

    द्यु॒क्षं सु॒दानुं॒ तवि॑षीभि॒रावृ॑तं गि॒रिं न पु॑रु॒भोज॑सम्। क्षु॒मन्तं॒ वाजं॑ श॒तिनं॑ सह॒स्रिणं॑ म॒क्षू गोम॑न्तमीमहे ॥

    स्वर सहित पद पाठ

    द्यु॒क्षम् । सु॒ऽदानु॑म् । तवि॑षीभि: । आऽवृ॑तम् । गि॒रिम् । न । पु॒रु॒ऽभोज॑सम् ॥ क्षु॒ऽमन्त॑म् । वाज॑म् । श॒तिन॑म् । स॒ह॒स्रिण॑म् । म॒क्षु । गोऽम॑न्तम् । ई॒म॒हे॒ ॥९.२॥


    स्वर रहित मन्त्र

    द्युक्षं सुदानुं तविषीभिरावृतं गिरिं न पुरुभोजसम्। क्षुमन्तं वाजं शतिनं सहस्रिणं मक्षू गोमन्तमीमहे ॥

    स्वर रहित पद पाठ

    द्युक्षम् । सुऽदानुम् । तविषीभि: । आऽवृतम् । गिरिम् । न । पुरुऽभोजसम् ॥ क्षुऽमन्तम् । वाजम् । शतिनम् । सहस्रिणम् । मक्षु । गोऽमन्तम् । ईमहे ॥९.२॥

    अथर्ववेद - काण्ड » 20; सूक्त » 9; मन्त्र » 2

    टिप्पणीः - २−(द्युक्षम्) दिवु व्यवहारे-डिवि+क्षि निवासगत्योः-डप्रत्ययः। द्युषु व्यवहारेषु गन्तारम् (सुदानुम्) महादानिनम् (तविषीभिः) तु वृद्धौ पूर्तौ च-टिषन्, ङीप्। तविषी बलनाम-निघ० २।९। बलैः। सेनाभिः (आवृतम्) आच्छादितम्। प्रपूर्णम् (गिरिम्) गिरिर्मेघनाम-निघ० १।१०। मेघम् (न) इव (पुरुभोजसम्) बहुपालकम् (क्षुमन्तम्) आङ्परयोः खनिशॄभ्यां डिच्च। उ० १।३३। टुक्षु शब्दे, क्षि निवासगत्योः, ऐश्वर्ये च-कुप्रत्ययः स च डित्। क्षु अन्ननाम-निघ० २।७। अन्नवन्तम् (वाजम्) अर्शआद्यच्। वाजवन्तम्। बलवन्तम् (शतिनम्) असंख्यश्रेष्ठपदार्थयुक्तम् (सहस्रिणम्) तपःसहस्राभ्यां विनीनी। पा० ।२।१०२। सहस्र-इनि। असंख्यश्रेष्ठगुणोपेतम् (मक्षु) शीघ्रम् (गोमन्तम्) प्रशस्तगोभिर्युक्तम् (ईमहे) याचामहे-निघ० ३।१९ ॥

    इस भाष्य को एडिट करें
    Top