Sidebar
अथर्ववेद - काण्ड 20/ सूक्त 102/ मन्त्र 3
वृष॑णं त्वा व॒यं वृ॑ष॒न्वृष॑णः॒ समि॑धीमहि। अग्ने॒ दीद्य॑तं बृ॒हत् ॥
स्वर सहित पद पाठवृष॑णम् । त्वा॒ । व॒यम् । वृ॒ष॒न् । वृष॑ण: । सम् । इ॒धी॒म॒हि ॥ अग्ने॑ । दीद्य॑तम् । बृ॒हत् ॥१०२.३॥
स्वर रहित मन्त्र
वृषणं त्वा वयं वृषन्वृषणः समिधीमहि। अग्ने दीद्यतं बृहत् ॥
स्वर रहित पद पाठवृषणम् । त्वा । वयम् । वृषन् । वृषण: । सम् । इधीमहि ॥ अग्ने । दीद्यतम् । बृहत् ॥१०२.३॥
अथर्ववेद - काण्ड » 20; सूक्त » 102; मन्त्र » 3
सूचना -
कृपया अस्य मन्त्रस्यार्थम् आर्य(हिन्दी)भाष्ये पश्यत।
टिप्पणीः - ३−(वृषणम्) बलवन्तम् (त्वा) (वयम्) (वृषन्) बलवन् (वृषणः) बलवन्तः सन्तः (सम्) सम्यक् (इधीमहि) प्रकाशयेम (अग्ने) प्रकाशस्वरूप परमेश्वर (दीद्यतम्) दीदयतिर्ज्वलतिकर्मा-निघ० १।१६, शतृ। दीप्यमानम् (बृहत्) बहुप्रकारेण ॥
इस भाष्य को एडिट करें