Sidebar
अथर्ववेद - काण्ड 20/ सूक्त 103/ मन्त्र 1
अ॒ग्निमी॑डि॒ष्वाव॑से॒ गाथा॑भिः शी॒रशो॑चिषम्। अ॒ग्निं रा॒ये पु॑रुमीढ श्रु॒तं नरो॒ऽग्निं सु॑दी॒तये॑ छ॒र्दिः ॥
स्वर सहित पद पाठअ॒ग्निम् । ई॒लि॒ष्व॒ । अव॑से । गाथा॑भि: । शी॒रऽशो॑चिषम् ॥ अ॒ग्निम् । रा॒ये । पु॒रु॒ऽमी॒ल्ह॒ । श्रु॒तम् । नर॑: । अ॒ग्निम् । सु॒ऽदी॒तये॑ । छ॒र्दि: ॥१०३.१॥
स्वर रहित मन्त्र
अग्निमीडिष्वावसे गाथाभिः शीरशोचिषम्। अग्निं राये पुरुमीढ श्रुतं नरोऽग्निं सुदीतये छर्दिः ॥
स्वर रहित पद पाठअग्निम् । ईलिष्व । अवसे । गाथाभि: । शीरऽशोचिषम् ॥ अग्निम् । राये । पुरुऽमील्ह । श्रुतम् । नर: । अग्निम् । सुऽदीतये । छर्दि: ॥१०३.१॥
अथर्ववेद - काण्ड » 20; सूक्त » 103; मन्त्र » 1
सूचना -
कृपया अस्य मन्त्रस्यार्थम् आर्य(हिन्दी)भाष्ये पश्यत।
टिप्पणीः - यह मन्त्र ऋग्वेद में है-८।७१ [सायणभाष्य ६०]।१४, सामवेद-पू० १।।६ ॥ १−(अग्निम्) प्रकाशस्वरूपं परमात्मानम् (ईडिष्व) अ० २०।१०२।१। अधीष्व। अन्विच्छ (अवसे) रक्षणाय (गाथाभिः) गानयोग्यक्रियाभिः (शीरशोचिषम्) स्फायितञ्चिवञ्चि०। उ० २।१३। शीङ् स्वप्ने-रक्। अर्चिशुचि० उ० २।१०८। शुच शोके-इसि। महाप्रकाशयुक्तम् (अग्निम्) (राये) धनाय (पुरुमीढ) मिह सेचने-क्त। बहुज्ञानेन मीढ सिक्त वर्धित मनुष्य (श्रुतम्) विख्यातम् (नरः) नेता सन् (अग्निम्) (सुदीतये) पलोपः। सुदीप्तये। शोभनप्रकाशाय (छर्दिः) अर्चिशुचिहुसृपिछादिच्छर्दिभ्य इसिः। उ० २।१०८। छर्द सन्दीपने-इसि। गृहम्-निघ० ३।४ ॥
इस भाष्य को एडिट करें