Sidebar
अथर्ववेद - काण्ड 20/ सूक्त 103/ मन्त्र 3
अच्छा॒ हि त्वा॑ सहसः सूनो अङ्गिरः॒ स्रुच॒श्चर॑न्त्यध्व॒रे। ऊ॒र्जो नपा॑तं घृ॒तके॑शमीमहे॒ऽग्निं य॒ज्ञेषु॑ पू॒र्व्यम् ॥
स्वर सहित पद पाठअच्छ॑ । हि । त्वा॒ । स॒ह॒स॒: । सू॒नो॒ इति॑ । अ॒ङ्गि॒र॒: । स्रुच॑: । चर॑न्ति । अ॒ध्व॒रे ॥ ऊ॒र्ज: । नपा॑तम् । घृ॒तऽके॑शम् । ई॒म॒हे॒ । अ॒ग्निम् । य॒ज्ञेषु॑ । पू॒र्व्यम् ॥१०३.३॥
स्वर रहित मन्त्र
अच्छा हि त्वा सहसः सूनो अङ्गिरः स्रुचश्चरन्त्यध्वरे। ऊर्जो नपातं घृतकेशमीमहेऽग्निं यज्ञेषु पूर्व्यम् ॥
स्वर रहित पद पाठअच्छ । हि । त्वा । सहस: । सूनो इति । अङ्गिर: । स्रुच: । चरन्ति । अध्वरे ॥ ऊर्ज: । नपातम् । घृतऽकेशम् । ईमहे । अग्निम् । यज्ञेषु । पूर्व्यम् ॥१०३.३॥
अथर्ववेद - काण्ड » 20; सूक्त » 103; मन्त्र » 3
सूचना -
कृपया अस्य मन्त्रस्यार्थम् आर्य(हिन्दी)भाष्ये पश्यत।
टिप्पणीः - ३−(अच्छ) सुष्ठु प्रकारेण (हि) एव (त्वा) (सहसः) बलस्य (सूनो) प्रेरक (अङ्गिरः) हे ज्ञानिन् परमेश्वर। (स्रुचः) चिक् च। उ० २।६२। स्रु गतौ-क्विप् चिगागमः। गतिशीलाः प्रजाः (चरन्ति) गच्छन्ति। प्राप्नुवन्ति (अध्वरे) हिंसारहिते व्यवहारे (ऊर्जः) बलस्य (नपातम्) नपातयितारम्। रक्षकम् (घृतकेशम्) घृतं जलं केशं प्रकाशं च (ईमहे) याचामहे (अग्निम्) प्रकाशस्वरूपं परमेश्वरम् (यज्ञेषु) संयोगवियोगव्यवहारेषु (पूर्व्यम्) पुरातनम् ॥
इस भाष्य को एडिट करें