Loading...
अथर्ववेद > काण्ड 20 > सूक्त 105

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 20/ सूक्त 105/ मन्त्र 1
    सूक्त - नृमेधः देवता - इन्द्रः छन्दः - प्रगाथः सूक्तम् - सूक्त-१०५

    त्वमि॑न्द्र॒ प्रतू॑र्तिष्व॒भि विश्वा॑ असि॒ स्पृधः॑। अ॑शस्ति॒हा ज॑नि॒ता वि॑श्व॒तूर॑सि॒ त्वं तू॑र्य तरुष्य॒तः ॥

    स्वर सहित पद पाठ

    त्वम् । इ॒न्द्र॒ । प्रऽतू॑र्तिषु । अ॒भि । विश्वा॑: । अ॒सि॒ । स्पृध॑: ॥ अ॒श॒स्ति॒ऽहा । ज॒नि॒ता । वि॒श्व॒ऽतू: । अ॒सि॒ । त्वम् । तू॒र्य॒ । त॒रु॒ष्य॒त: ॥१०५.१॥


    स्वर रहित मन्त्र

    त्वमिन्द्र प्रतूर्तिष्वभि विश्वा असि स्पृधः। अशस्तिहा जनिता विश्वतूरसि त्वं तूर्य तरुष्यतः ॥

    स्वर रहित पद पाठ

    त्वम् । इन्द्र । प्रऽतूर्तिषु । अभि । विश्वा: । असि । स्पृध: ॥ अशस्तिऽहा । जनिता । विश्वऽतू: । असि । त्वम् । तूर्य । तरुष्यत: ॥१०५.१॥

    अथर्ववेद - काण्ड » 20; सूक्त » 105; मन्त्र » 1

    टिप्पणीः - मन्त्र १-३ ऋग्वेद में हैं-८।९९ [सायणभाष्य ८८]।-७; मन्त्र १, २ यजुर्वेद-३३।६६; सामवेद-उ० ८।१।८, म० १ साम० पू० ४।२।९ ॥ १−(त्वम्) (इन्द्र) परमेश्वर (प्रतूर्तिषु) तूरी गतित्वरणहिंसनयोः-क्तिन्। परस्परमारणेषु संग्रामेषु (अभि असि) अभिभवसि (विश्वाः) सर्वाः (स्पृधः) स्पर्धमानाः शत्रुसेनाः (अशस्तिहा) अपकीर्तिनाशकः (जनिता) सुखोत्पादकः (विश्वतूः) तूरी हिंसायाम्-क्विप्। सर्वशत्रुनाशकः (असि) (त्वम्) त्वम् (तूर्य) तूरी हिंसे। मारय (तरुष्यतः) बाधकान् वैरिणः ॥

    इस भाष्य को एडिट करें
    Top