Sidebar
अथर्ववेद - काण्ड 20/ सूक्त 104/ मन्त्र 4
त्वं दा॒ता प्र॑थ॒मो राध॑साम॒स्यसि॑ स॒त्य ई॑शान॒कृत्। तु॑विद्यु॒म्नस्य॒ युज्या॑ वृणीमहे पु॒त्रस्य॒ शव॑सो म॒हः ॥
स्वर सहित पद पाठत्वम् । दा॒ता । प्र॒थ॒म: । राध॑साम् । अ॒सि॒ । असि॑ । स॒त्य: । ई॒शा॒न॒ऽकृत् ॥ तु॒वि॒ऽद्यु॒म्नस्य॑ । युज्या॑ । आ । वृ॒णी॒म॒हे॒ । पु॒त्रस्य॑ । शव॑स: । म॒ह: ॥१०४.४॥
स्वर रहित मन्त्र
त्वं दाता प्रथमो राधसामस्यसि सत्य ईशानकृत्। तुविद्युम्नस्य युज्या वृणीमहे पुत्रस्य शवसो महः ॥
स्वर रहित पद पाठत्वम् । दाता । प्रथम: । राधसाम् । असि । असि । सत्य: । ईशानऽकृत् ॥ तुविऽद्युम्नस्य । युज्या । आ । वृणीमहे । पुत्रस्य । शवस: । मह: ॥१०४.४॥
अथर्ववेद - काण्ड » 20; सूक्त » 104; मन्त्र » 4
सूचना -
कृपया अस्य मन्त्रस्यार्थम् आर्य(हिन्दी)भाष्ये पश्यत।
टिप्पणीः - ४−(त्वम्) (दाता) दानी (प्रथमः) आदिमः (राधसाम्) धनानाम् (असि) (असि) (सत्यः) यथार्थः (ईशानकृत्) ऐश्वर्यवतां कर्ता (तुविद्युम्नस्य) बहुयशस्विनः पुरुषस्य (युज्या) युज-क्यप्। योग्यानि कर्माणि (आ) समन्तात् (वृणीमहे) स्वीकुर्मः (पुत्रस्य) (शवसः) बलस्य (महः) महतः ॥
इस भाष्य को एडिट करें