Sidebar
अथर्ववेद - काण्ड 20/ सूक्त 104/ मन्त्र 2
अ॒यं स॒हस्र॒मृषि॑भिः॒ सह॑स्कृतः समु॒द्र इ॑व पप्रथे। स॒त्यः सो अ॑स्य महि॒मा गृ॑णे॒ शवो॑ य॒ज्ञेषु॑ विप्र॒राज्ये॑ ॥
स्वर सहित पद पाठअ॒यम् । स॒हस्र॑म् । ऋषि॑ऽभि: । सह॑:ऽकृत: । स॒मु॒द्र:ऽइ॑व । प॒प्र॒थे॒ ॥ स॒त्य: । स: । अ॒स्य॒ । म॒हि॒मा । गृ॒णे॒ । शव॑: । य॒ज्ञेषु॑ । वि॒प्र॒ऽराज्ये॑ ॥१०४.२॥
स्वर रहित मन्त्र
अयं सहस्रमृषिभिः सहस्कृतः समुद्र इव पप्रथे। सत्यः सो अस्य महिमा गृणे शवो यज्ञेषु विप्रराज्ये ॥
स्वर रहित पद पाठअयम् । सहस्रम् । ऋषिऽभि: । सह:ऽकृत: । समुद्र:ऽइव । पप्रथे ॥ सत्य: । स: । अस्य । महिमा । गृणे । शव: । यज्ञेषु । विप्रऽराज्ये ॥१०४.२॥
अथर्ववेद - काण्ड » 20; सूक्त » 104; मन्त्र » 2
सूचना -
कृपया अस्य मन्त्रस्यार्थम् आर्य(हिन्दी)भाष्ये पश्यत।
टिप्पणीः - २−(अयम्) परमेश्वरः (सहस्रम्) बहुप्रकारेण (ऋषिभिः) वेदार्थविद्भिः (सहस्कृतः) पराक्रमकर्तॄन् (समुद्रः) अन्तरिक्षम् (इव) यथा (पप्रथे) विस्तारितवान् (सत्यः) यथार्थः (सः) (अस्य) परमेश्वरस्य (महिमा) महत्त्वम् (गृणे) स्तौमि (शवः) बलम् (यज्ञेषु) श्रेष्ठव्यवहारेषु (विप्रराज्ये) मेधाविनां राष्ट्रे ॥
इस भाष्य को एडिट करें