Sidebar
अथर्ववेद - काण्ड 20/ सूक्त 115/ मन्त्र 1
अ॒हमिद्धि पि॒तुष्परि॑ मे॒धामृ॒तस्य॑ ज॒ग्रभ॑। अ॒हं सूर्य॑ इवाजनि ॥
स्वर सहित पद पाठअ॒हम् । इत् । हि । पि॒तु: । परि॑ । मे॒धाम् । ऋ॒तस्य॑ । ज॒ग्रभ॑ । अ॒हम् । सूर्य॑:ऽइव । अ॒ज॒नि॒ ॥११५.१॥
स्वर रहित मन्त्र
अहमिद्धि पितुष्परि मेधामृतस्य जग्रभ। अहं सूर्य इवाजनि ॥
स्वर रहित पद पाठअहम् । इत् । हि । पितु: । परि । मेधाम् । ऋतस्य । जग्रभ । अहम् । सूर्य:ऽइव । अजनि ॥११५.१॥
अथर्ववेद - काण्ड » 20; सूक्त » 115; मन्त्र » 1
सूचना -
कृपया अस्य मन्त्रस्यार्थम् आर्य(हिन्दी)भाष्ये पश्यत।
टिप्पणीः - यह तृच ऋग्वेद में है-८।६।१०-१२; सामवेद उ० ७।१, तृच , म० १ सा० पू० २।६।८ ॥ १−(अहम्) मनुष्यः (इत्) एव (हि) अवश्यम् (पितुः) पालकात् परमेश्वरात् (परि) सर्वथा (मेधाम्) धारणावतीं बुद्धिम् (ऋतस्य) सत्यज्ञानस्य (जग्रभ) हस्य भः। अहं जग्रह। गृहीतवानस्मि (अहम्) (सूर्यः) (इव) (अजनि) अजनिषं प्रादुरभूवम् ॥
इस भाष्य को एडिट करें