Sidebar
अथर्ववेद - काण्ड 20/ सूक्त 114/ मन्त्र 2
नकी॑ रे॒वन्तं॑ स॒ख्याय॑ विन्दसे॒ पीय॑न्ति ते सुरा॒श्व:। य॒दा कृ॒णोषि॑ नद॒नुं समू॑ह॒स्यादित्पि॒तेव॑ हूयसे ॥
स्वर सहित पद पाठनकि॑: । रे॒वन्त॑म् । स॒ख्याय॑ । वि॒न्द॒से॒ । पीब॑न्ति । ते॒ । सु॒रा॒श्व॑: ॥ य॒दा । कृ॒णोषि॑ । न॒द॒नुम् । सम् । ऊ॒ह॒सि॒ । आत् । इत् । पि॒ताऽइ॑व । हू॒य॒से॒ ॥११४.२॥
स्वर रहित मन्त्र
नकी रेवन्तं सख्याय विन्दसे पीयन्ति ते सुराश्व:। यदा कृणोषि नदनुं समूहस्यादित्पितेव हूयसे ॥
स्वर रहित पद पाठनकि: । रेवन्तम् । सख्याय । विन्दसे । पीबन्ति । ते । सुराश्व: ॥ यदा । कृणोषि । नदनुम् । सम् । ऊहसि । आत् । इत् । पिताऽइव । हूयसे ॥११४.२॥
अथर्ववेद - काण्ड » 20; सूक्त » 114; मन्त्र » 2
सूचना -
कृपया अस्य मन्त्रस्यार्थम् आर्य(हिन्दी)भाष्ये पश्यत।
टिप्पणीः - २−(नकिः) न कदापि (रेवन्तम्) बहुधनवन्तम् (सख्याय) सखिभावाय (विन्दसे) त्वं लभसे (पीयन्ति) एकवचनस्य बहुवचनम्। पीयति। हिंसां करोति (ते) तव (सुराश्वः) सुरा+टुओगतिवृद्ध्योः-डप्रत्ययः। सुरया मदिरया वृद्धः प्रमत्तः। नास्तिकः (यदा) कृणोषि। करोषि (नदनुम्) अनुङ् नदेश्च। उ० ३।२। णद अव्यक्ते शब्दे-अनुङ्। गर्जनम्। संग्रामम्-निघ० २।१७। (सम्) सम्यक् (ऊहसि) वितर्कयसि (आत्) अनन्तरम् (इत्) एव (पिता) (इव) (हूयसे) आहूयसे ॥
इस भाष्य को एडिट करें