Sidebar
अथर्ववेद - काण्ड 20/ सूक्त 117/ मन्त्र 2
यस्ते॒ मदो॒ युज्य॒श्चारु॒रस्ति॒ येन॑ वृ॒त्राणि॑ हर्यश्व॒ हंसि॑। स त्वामि॑न्द्र प्रभूवसो ममत्तु ॥
स्वर सहित पद पाठय: । ते॒ । मद॑: । युज्य॑: । चारु॑: । अस्ति॑ । येन॑ । वृ॒त्राणि॑ । ह॒रि॒ऽअ॒श्व॒ । हंसि॑ ॥ य: । त्वाम् । इ॒न्द्र॒ । प्र॒भु॒व॒सो॒ इति॑ प्रभुऽवसो । म॒म॒त्तु॒ ॥११७.२॥
स्वर रहित मन्त्र
यस्ते मदो युज्यश्चारुरस्ति येन वृत्राणि हर्यश्व हंसि। स त्वामिन्द्र प्रभूवसो ममत्तु ॥
स्वर रहित पद पाठय: । ते । मद: । युज्य: । चारु: । अस्ति । येन । वृत्राणि । हरिऽअश्व । हंसि ॥ य: । त्वाम् । इन्द्र । प्रभुवसो इति प्रभुऽवसो । ममत्तु ॥११७.२॥
अथर्ववेद - काण्ड » 20; सूक्त » 117; मन्त्र » 2
सूचना -
कृपया अस्य मन्त्रस्यार्थम् आर्य(हिन्दी)भाष्ये पश्यत।
टिप्पणीः - २−(यः) तत्त्वरसः (ते) तुभ्यम् (मदः) हर्षकरः (युज्यः) युज-क्यप् योग्यः (चारुः) समीचीनः (अस्ति) (येन) तत्त्वरसेन (वृत्राणि) शत्रुदलानि (हर्यश्व) म० १। प्रापणशीलाश्वयुक्त (हंसि) नाशयसि (सः) तत्त्वरसः (त्वाम्) (इन्द्र) परमैश्वर्यवन् राजन् (प्रभूवसो) हे समर्थवासयितः। बहुधन (ममत्तु) मादयतु। हर्षयतु ॥
इस भाष्य को एडिट करें