Loading...
अथर्ववेद > काण्ड 20 > सूक्त 118

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 20/ सूक्त 118/ मन्त्र 2
    सूक्त - भर्गः देवता - इन्द्रः छन्दः - प्रगाथः सूक्तम् - सूक्त-११८

    पौ॒रो अश्व॑स्य पुरु॒कृद्गवा॑म॒स्युत्सो॑ देव हिर॒ण्ययः॑। नकि॒र्हि दानं॑ परि॒मर्धि॑ष॒त्त्वे यद्य॒द्यामि॒ तदा भ॑र ॥

    स्वर सहित पद पाठ

    पौ॒र: । अश्व॑स्य । पु॒रु॒ऽकृत् । गवा॑म् । अ॒सि॒ । उत्स॑: । दे॒व॒ । हि॒र॒ण्यय॑: ॥ नकि॑: । हि । दान॑म् । प॒रि॒ऽमर्धि॑षत् । त्वे इति॑ । यत्ऽय॑त् । यामि॑ । तत् । आ । भ॒र॒ ॥११८.२॥


    स्वर रहित मन्त्र

    पौरो अश्वस्य पुरुकृद्गवामस्युत्सो देव हिरण्ययः। नकिर्हि दानं परिमर्धिषत्त्वे यद्यद्यामि तदा भर ॥

    स्वर रहित पद पाठ

    पौर: । अश्वस्य । पुरुऽकृत् । गवाम् । असि । उत्स: । देव । हिरण्यय: ॥ नकि: । हि । दानम् । परिऽमर्धिषत् । त्वे इति । यत्ऽयत् । यामि । तत् । आ । भर ॥११८.२॥

    अथर्ववेद - काण्ड » 20; सूक्त » 118; मन्त्र » 2

    टिप्पणीः - २−(पौरः) पूर-अण् स्वार्थे। पूरः। पूरकः। पूरयिता (अश्वस्य) अश्वसमूहस्य (पुरुकृत्) बहुकर्ता (गवाम्) धेनूनाम् (असि) (उत्सः) कूपतुल्य उपकारकः (देव) कमनीय परमात्मन् (हिरण्ययः) तेजोमयः (नकिः) न कश्चिदपि (हि) यतः (दानम्) (परिमर्धिषत्) मृध मृधु हिंसायाम् आर्द्रीभावे च-लेट्। नाशयेत् (त्वे) विभक्तेः शे। तव (यद्यत्) वस्तु (यामि) याचे (तत्) (आ) समन्तात् (भर) धर ॥

    इस भाष्य को एडिट करें
    Top