Loading...
अथर्ववेद > काण्ड 20 > सूक्त 123

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 20/ सूक्त 123/ मन्त्र 2
    सूक्त - कुत्सः देवता - सूर्यः छन्दः - त्रिष्टुप् सूक्तम् - सूक्त-१२३

    तन्मि॒त्रस्य॒ वरु॑णस्याभि॒चक्षे॒ सूर्यो॑ रू॒पं कृ॑णुते॒ द्योरु॒पस्थे॑। अ॑न॒न्तम॒न्यद्रुश॑दस्य॒ प्राजः॑ कृ॒ष्णम॒न्यद्ध॒रितः॒ सं भ॑रन्ति ॥

    स्वर सहित पद पाठ

    तत् । मि॒त्रस्य॑ । वरु॑णस्य । अ॒भि॒ऽचक्षे॑ । सूर्य॑: । रू॒पम् । कृ॒णु॒ते॒ । द्यौ: । उ॒पऽस्थे॑ ॥ अ॒न॒न्तम् । अ॒न्यत् । रुश॑त् । अ॒स्य॒ । पाज॑: । कृ॒ष्णम् । अ॒न्यत् । ह॒रित॑: । सम् । भ॒र॒न्ति॒ ॥१२३॥


    स्वर रहित मन्त्र

    तन्मित्रस्य वरुणस्याभिचक्षे सूर्यो रूपं कृणुते द्योरुपस्थे। अनन्तमन्यद्रुशदस्य प्राजः कृष्णमन्यद्धरितः सं भरन्ति ॥

    स्वर रहित पद पाठ

    तत् । मित्रस्य । वरुणस्य । अभिऽचक्षे । सूर्य: । रूपम् । कृणुते । द्यौ: । उपऽस्थे ॥ अनन्तम् । अन्यत् । रुशत् । अस्य । पाज: । कृष्णम् । अन्यत् । हरित: । सम् । भरन्ति ॥१२३॥

    अथर्ववेद - काण्ड » 20; सूक्त » 123; मन्त्र » 2

    टिप्पणीः - २−(तत्) तेन (मित्रस्य) प्राणस्य (वरुणस्य) उदानस्य (अभिचक्षे) चक्षिङ् दर्शने-क्विप्। संमुखदर्शनाय (सूर्यः) प्रेरकः सविता (रूपम्) चक्षुर्ग्राह्यं गुणम् (कृणुते) करोति (द्योः) प्रकाशस्य (उपस्थे) उपस्थाने मध्ये (अनन्तम्) अन्तरहितेन ब्रह्मणा (अन्यत्) एकम् (रुशत्) रुश हिंसायाम्-शतृ-रुशदिति वर्णनाम रोचतेर्ज्वलतिकर्मणः-निरु० २।२०। ज्वलितवर्णम् दीप्यमानम् (अस्य) सूर्यस्य (पाजः) बलम् (कृष्णम्) आकर्षणम् (अन्यत्) द्वितीयम् (हरितः) दिशः (सम्) एकीभूय (भरन्ति) धरन्ति ॥

    इस भाष्य को एडिट करें
    Top