अथर्ववेद - काण्ड 20/ सूक्त 124/ मन्त्र 3
सूक्त - वामदेवः
देवता - इन्द्रः
छन्दः - पादनिचृद्गायत्री
सूक्तम् - सूक्त-१२४
अ॒भी षु णः॒ सखी॑नामवि॒ता ज॑रितॄ॒णाम्। श॒तं भ॑वास्यू॒तिभिः॑ ॥
स्वर सहित पद पाठअ॒भि । सु । न॒: । सखी॑नाम् । अ॒वि॒ता । ज॒रि॒तॄ॒णाम् ॥ श॒तम् । भ॒वा॒सि॒ । ऊ॒तिऽभि॑: ॥१२४.३॥
स्वर रहित मन्त्र
अभी षु णः सखीनामविता जरितॄणाम्। शतं भवास्यूतिभिः ॥
स्वर रहित पद पाठअभि । सु । न: । सखीनाम् । अविता । जरितॄणाम् ॥ शतम् । भवासि । ऊतिऽभि: ॥१२४.३॥
अथर्ववेद - काण्ड » 20; सूक्त » 124; मन्त्र » 3
सूचना -
कृपया अस्य मन्त्रस्यार्थम् आर्य(हिन्दी)भाष्ये पश्यत।
टिप्पणीः - ३−(अभि) अभिमुखम् (सु) (नः) अस्माकम् (सखीनाम्) सुहृदाम् (अविता) रक्षकः (जरितॄणाम्) स्तोतॄणाम्। सद्गुणविदाम् (शतम्) बहुप्रकारेण (भवासि) लेटि रूपम्। भवेः (ऊतिभिः) रक्षाभिः ॥
इस भाष्य को एडिट करें