अथर्ववेद - काण्ड 20/ सूक्त 133/ मन्त्र 4
उ॑त्ता॒नायै॑ शया॒नायै॒ तिष्ठ॑न्ती॒ वाव॑ गूहसि। न वै॑ कुमारि॒ तत्तथा॒ यथा॑ कुमारि॒ मन्य॑से ॥
स्वर सहित पद पाठउ॒त्ता॒नायै॑ । शया॒नायै॒ । तिष्ठ॑न्ती॒ । वा । अव॑ । गूहसि: ॥ न । वै । कु॒मारि॒ । तत् । तथा॒ । यथा॑ । कुमारि॒ । मन्य॑से ॥१३३.४॥
स्वर रहित मन्त्र
उत्तानायै शयानायै तिष्ठन्ती वाव गूहसि। न वै कुमारि तत्तथा यथा कुमारि मन्यसे ॥
स्वर रहित पद पाठउत्तानायै । शयानायै । तिष्ठन्ती । वा । अव । गूहसि: ॥ न । वै । कुमारि । तत् । तथा । यथा । कुमारि । मन्यसे ॥१३३.४॥
अथर्ववेद - काण्ड » 20; सूक्त » 133; मन्त्र » 4
सूचना -
कृपया अस्य मन्त्रस्यार्थम् आर्य(हिन्दी)भाष्ये पश्यत।
टिप्पणीः - ४−(उत्तानायै) उत्+तनु विस्तारे श्रद्धोपकारादिषु च-घञ्। उत्तमोपकारायुक्तायै नीतये (शयानाय) सम्यानच् स्तुवः। उ० २।८९। शीङ् शयने-आनच्। टाप्। सुपां सुपो भवन्ति। वा० पा० ७।१।३९। द्वितीयार्थे चतुर्थी। प्राप्तनिद्राम्। आलस्ययुक्तां रीतिम् (तिष्ठन्ती) वर्तमाना त्वम् (वा) अवधारणे (अव) अनादरे। अनादृत्य (गूहसि) गुहू संवरणे। आच्छादयसि। अन्यत्-म० १ ॥
इस भाष्य को एडिट करें