Loading...
अथर्ववेद > काण्ड 20 > सूक्त 140

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 20/ सूक्त 140/ मन्त्र 5
    सूक्त - शशकर्णः देवता - अश्विनौ छन्दः - त्रिष्टुप् सूक्तम् - सूक्त १४०

    यद्वां॑ क॒क्षीवाँ॑ उ॒त यद्व्य॑श्व॒ ऋषि॒र्यद्वां॑ दी॒र्घत॑मा जु॒हाव॑। पृथी॒ यद्वां॑ वै॒न्यः साद॑नेष्वे॒वेदतो॑ अश्विना चेतयेथाम् ॥

    स्वर सहित पद पाठ

    यत् । वा॒म् । क॒क्षीवा॑न् । उ॒त । यत् । वि॒ऽअ॑श्व: । ऋषि॑: । यत् । वा॒म् । दी॒र्घऽत॑मा:। जु॒हाव॑ ॥ पृथी॑ । यत् । वा॒म् । वै॒न्य: । सद॑नेषु । ए॒व । इत् । अत॑: । अ॒श्वि॒ना॒ । चे॒त॒ये॒था॒म् ॥१४०.५॥


    स्वर रहित मन्त्र

    यद्वां कक्षीवाँ उत यद्व्यश्व ऋषिर्यद्वां दीर्घतमा जुहाव। पृथी यद्वां वैन्यः सादनेष्वेवेदतो अश्विना चेतयेथाम् ॥

    स्वर रहित पद पाठ

    यत् । वाम् । कक्षीवान् । उत । यत् । विऽअश्व: । ऋषि: । यत् । वाम् । दीर्घऽतमा:। जुहाव ॥ पृथी । यत् । वाम् । वैन्य: । सदनेषु । एव । इत् । अत: । अश्विना । चेतयेथाम् ॥१४०.५॥

    अथर्ववेद - काण्ड » 20; सूक्त » 140; मन्त्र » 5

    टिप्पणीः - −(यत्) यथा (वाम्) युवाम् (कक्षीवान्) अथ० ४।२९।। कश गतिशासनयोः-क्सि, मतुप्, मस्य वः, दीर्घश्च। गतिशीलः शासनशीलो वा (उत) अपि च (यत्) यथा (व्यश्वः) वि+अशू व्याप्तौ-क्वन्। विविधवेगयुक्तः (ऋषिः) विज्ञानी (यत्) (वाम्) (दीर्घतमाः) दॄ विदारणे-घञ्+तमु काङ्क्षायां खेदे च-असुन् दीर्घं विदीर्णं दूरीभूतं तमः अन्धकारो यस्मात् स विद्वान् (जुहाव) हु आदाने-लिट्। गृहीतवान्। स्वीकृतवान् (पृथी) अ० ८।१०(४)।११। प्रथ विस्तारे-घञर्थे कप्रत्ययः सम्प्रसारणं च, मत्वर्थे इनि। विस्तारवान् (यत्) (वाम्) (वैन्यः) अथ० ८।१०(४)।११। वेनो मेधावी-निघ० २।१। अदूरभवश्च। पा० ४।२।७०। इति ण्य। मेधाविनां समीपस्थः (सदनेषु) संहितायां दीर्घः। स्थानेषु (एव) एवम्। तथा (इत्) अवश्यम् (अतः) इदम्-द्वितीयार्थे तसिः। इदं वचनम् (अश्विना) म० २। हे व्यापकौ। अहोरात्रौ (चेतयेथाम्) जानीतम् ॥

    इस भाष्य को एडिट करें
    Top