अथर्ववेद - काण्ड 20/ सूक्त 140/ मन्त्र 2
आ नू॒नम॒श्विनो॒रृषि॒ स्तोमं॑ चिकेत वा॒मया॑। आ सोमं॒ मधु॑मत्तमं घ॒र्मं सि॑ञ्चा॒दथ॑र्वणि ॥
स्वर सहित पद पाठआ । नू॒नम् । अ॒श्विनो॑: । ऋषि॑: । स्तोम॑म् । चि॒के॒त॒ । वा॒मया॑ ॥ आ । सोम॑म् । मधु॑मत्ऽतमम् । घ॒र्मम् । सि॒ञ्चा॒त् । अथ॑र्वणि ॥१४०.२॥
स्वर रहित मन्त्र
आ नूनमश्विनोरृषि स्तोमं चिकेत वामया। आ सोमं मधुमत्तमं घर्मं सिञ्चादथर्वणि ॥
स्वर रहित पद पाठआ । नूनम् । अश्विनो: । ऋषि: । स्तोमम् । चिकेत । वामया ॥ आ । सोमम् । मधुमत्ऽतमम् । घर्मम् । सिञ्चात् । अथर्वणि ॥१४०.२॥
अथर्ववेद - काण्ड » 20; सूक्त » 140; मन्त्र » 2
सूचना -
कृपया अस्य मन्त्रस्यार्थम् आर्य(हिन्दी)भाष्ये पश्यत।
टिप्पणीः - २−(आ) समन्तात् (नूनम्) अवश्यम् (अश्विनोः) अथ० २।२९।६। अश्विनौ अहोरात्रावित्येके-निरु० १२।१। व्यापकयोः। अहोरात्रयोः (ऋषिः) विज्ञानी पुरुषः (स्तोमम्) स्तुत्यव्यवहारम् (चिकेत) कित ज्ञाने-लिट्-जानीयात् (वामया) वामः प्रशस्यः-निघ० ३।८। उत्कृष्टया बुद्ध्या (आ) (सोमम्) तत्त्वरसम् (मधुमत्तमम्) अतिशयेन मधुविद्यायुक्तम् (घर्मम्) अ० २०।१३९।४। घृ दीप्तौ-मक्। दीप्यमानम् (सिञ्चात्) सिञ्चेत् (अथर्वणि) अथ० ४।१।७। अ+थर्व चरणे-वनिप्, वलोपः। निश्चले जिज्ञासौ ॥
इस भाष्य को एडिट करें