Loading...
अथर्ववेद > काण्ड 20 > सूक्त 18

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 20/ सूक्त 18/ मन्त्र 4
    सूक्त - वसिष्ठः देवता - इन्द्रः छन्दः - गायत्री सूक्तम् - सूक्त-१८

    व॒यमि॑न्द्र त्वा॒यवो॒ऽभि प्र णो॑नुमो वृषन्। वि॒द्धि त्वस्य नो॑ वसो ॥

    स्वर सहित पद पाठ

    व॒यम् । इ॒न्द्र॒ । त्वा॒ऽयव॑: । अ॒भि । प्र । नो॒नु॒म॒: । वृ॒ष॒न् । वि॒द्धि । तु । अ॒स्य । न॒: । व॒सो॒ इति॑ ॥१८.४॥


    स्वर रहित मन्त्र

    वयमिन्द्र त्वायवोऽभि प्र णोनुमो वृषन्। विद्धि त्वस्य नो वसो ॥

    स्वर रहित पद पाठ

    वयम् । इन्द्र । त्वाऽयव: । अभि । प्र । नोनुम: । वृषन् । विद्धि । तु । अस्य । न: । वसो इति ॥१८.४॥

    अथर्ववेद - काण्ड » 20; सूक्त » 18; मन्त्र » 4

    टिप्पणीः - मन्त्र ४-६ ऋग्वेद में हैं-७।३१।४-६ और मन्त्र ४ सामवेद में है-पू० २।४।८ ॥ ४−(वयम्) (इन्द्रः) (त्वायवः) मृगय्वादयश्च। उ० १।३७। युष्मत्+या प्रापणे-कुप्रत्ययः। यद्वा सुप आत्मनः क्यच्। पा० ३।१।८। युष्मत्-क्यच्, उप्रत्ययः। प्रत्ययोत्तरपदयोश्च। पा० ७।२।९८। मपर्यन्तस्य त्वादेशः। त्वदित्यत्र तलोपः, अकारदीर्घत्वं च छान्दसम्। त्वां प्राप्ताः। त्वां कामयमानाः (अभि) सर्वतः (प्र) प्रकर्षेण (नोनुमः) णु स्तुतौ-यङ्लुक्। भृशं स्तुमः (वृषन्) हे बलवन् (विद्धि) ज्ञानं कुरु (तु) शीघ्रम् (अस्य) कर्मणः (नः) अस्माकम् (वसो) हे वासयितः ॥

    इस भाष्य को एडिट करें
    Top