अथर्ववेद - काण्ड 20/ सूक्त 18/ मन्त्र 5
मा नो॑ नि॒दे च॒ वक्त॑वे॒ऽर्यो र॑न्धी॒ररा॑व्णे। त्वे अपि॒ क्रतु॒र्मम॑ ॥
स्वर सहित पद पाठमा । न॒: । नि॒दे । च॒ । वक्त॑वे । अ॒र्य: । र॒न्धी॒: । अरा॑व्णे ॥ त्वे इति॑ । अपि॑ । क्रतु॑: । मम॑ ॥१८.५॥
स्वर रहित मन्त्र
मा नो निदे च वक्तवेऽर्यो रन्धीरराव्णे। त्वे अपि क्रतुर्मम ॥
स्वर रहित पद पाठमा । न: । निदे । च । वक्तवे । अर्य: । रन्धी: । अराव्णे ॥ त्वे इति । अपि । क्रतु: । मम ॥१८.५॥
अथर्ववेद - काण्ड » 20; सूक्त » 18; मन्त्र » 5
सूचना -
कृपया अस्य मन्त्रस्यार्थम् आर्य(हिन्दी)भाष्ये पश्यत।
टिप्पणीः - −(मा) निषेधे (नः) अस्मान् (निदे) निन्दकाय (च) (वक्तवे) सितनिगमि०। उ० १।६९। वच परिभाषणे-तुन्। परुषभाषिणे। बकवादिने (अर्यः) स्वामी त्वम् (मा रन्धीः) रध हिंसापाकयोः-लुङ्। रधिजभोरचि। पा० ७।१।६१। इति नुमागमः। रध्यतिर्वशगमनेऽपि-निरु० १०।४०। मा नाशय। मा वशीकुरु (अराव्णे) रा दाने-वनिप्। अदानिने (त्वे) त्वयि (अपि) एव (क्रतुः) प्रज्ञा (मम) ॥
इस भाष्य को एडिट करें