अथर्ववेद - काण्ड 20/ सूक्त 24/ मन्त्र 2
तमि॑न्द्र॒ मद॒मा ग॑हि बर्हि॒ष्ठां ग्राव॑भिः सु॒तम्। कु॒विन्न्वस्य तृ॒प्णवः॑ ॥
स्वर सहित पद पाठतम् । इ॒न्द्र॒ । मद॑म् । आ । ग॒हि॒ । ब॒र्हि॒:ऽस्थाम् । ग्राव॑ऽभि: । सु॒तम् ॥ कु॒वित् । नु । अ॒स्य । तृ॒प्णव॑: ॥२४.२॥
स्वर रहित मन्त्र
तमिन्द्र मदमा गहि बर्हिष्ठां ग्रावभिः सुतम्। कुविन्न्वस्य तृप्णवः ॥
स्वर रहित पद पाठतम् । इन्द्र । मदम् । आ । गहि । बर्हि:ऽस्थाम् । ग्रावऽभि: । सुतम् ॥ कुवित् । नु । अस्य । तृप्णव: ॥२४.२॥
अथर्ववेद - काण्ड » 20; सूक्त » 24; मन्त्र » 2
सूचना -
कृपया अस्य मन्त्रस्यार्थम् आर्य(हिन्दी)भाष्ये पश्यत।
टिप्पणीः - २−(तम्) प्रसिद्धम् (इन्द्रः) (मदम्) मदी हर्षे-अच्। कल्याणकरं पदार्थम् (आ) समन्तात् (गहि) प्राप्नुहि (बर्हिष्ठाम्) बर्हिस्+ष्ठा गतिनिवृत्तौ-क्विप्। बर्हिषि उत्तमासने स्थितम् (ग्रावभिः) अ० ३।१०।। गॄ विज्ञापने स्तुतौ च-क्वनिप्। शास्त्रविज्ञापकैः पण्डितैः (सुतम्) संस्कृतम् (कुवित्) बहुनाम-निघ० ३।१। बहुप्रकारेण (नु) क्षिप्रम् (अस्य) कल्याणकरस्य पदार्थस्य (तृप्णवः) त्रसिगृधिधृषिक्षिपेः क्नुः। पा० ३।२।१४०। तृप प्रीणने-क्नु। तृप्तिशीलाः ॥
इस भाष्य को एडिट करें