अथर्ववेद - काण्ड 20/ सूक्त 24/ मन्त्र 7
इ॒ममि॑न्द्र॒ गवा॑शिरं॒ यवा॑शिरं च नः पिब। आ॒गत्या॒ वृष॑भिः सु॒तम् ॥
स्वर सहित पद पाठइ॒मम् । इ॒न्द्र॒ । गोऽआ॑शिरम् । यव॑ऽआशिरम् । च॒ । न॒: । पि॒ब॒ ॥ आ॒ऽगत्य॑ । वृष॑ऽभि: । सु॒तम् ॥२४.७॥
स्वर रहित मन्त्र
इममिन्द्र गवाशिरं यवाशिरं च नः पिब। आगत्या वृषभिः सुतम् ॥
स्वर रहित पद पाठइमम् । इन्द्र । गोऽआशिरम् । यवऽआशिरम् । च । न: । पिब ॥ आऽगत्य । वृषऽभि: । सुतम् ॥२४.७॥
अथर्ववेद - काण्ड » 20; सूक्त » 24; मन्त्र » 7
सूचना -
कृपया अस्य मन्त्रस्यार्थम् आर्य(हिन्दी)भाष्ये पश्यत।
टिप्पणीः - ७−(इमम्) (इन्द्र) हे परमैश्वर्यवन् (गवाशिरम्) म० १। पृथिव्यां व्याप्तम् (यवाशिरम्) अशेर्नित्। उ० १।२। यव+आङ्+अश भोजने-किरन्। अन्नभोजनयुक्तं पदार्थम् (च) (नः) अस्माकम् (पिब) (आगत्य) अस्मान् प्राप्य (वृषभिः) बलवद्भिः (सुतम्) साधितम् ॥
इस भाष्य को एडिट करें