अथर्ववेद - काण्ड 20/ सूक्त 27/ मन्त्र 4
सूक्त - गोषूक्त्यश्वसूक्तिनौ
देवता - इन्द्रः
छन्दः - गायत्री
सूक्तम् - सूक्त-२७
न ते॑ व॒र्तास्ति॒ राध॑स॒ इन्द्र॑ दे॒वो न मर्त्यः॑। यद्दित्स॑सि स्तु॒तो म॒घम् ॥
स्वर सहित पद पाठन । ते॒ । व॒र्ता । अ॒स्ति॒ । राध॑स: । इन्द्र॑ । दे॒व: । न । मर्त्य॑: ॥ यत् । दित्स॑सि । स्तु॒त: । म॒घम् ॥२७.४॥
स्वर रहित मन्त्र
न ते वर्तास्ति राधस इन्द्र देवो न मर्त्यः। यद्दित्ससि स्तुतो मघम् ॥
स्वर रहित पद पाठन । ते । वर्ता । अस्ति । राधस: । इन्द्र । देव: । न । मर्त्य: ॥ यत् । दित्ससि । स्तुत: । मघम् ॥२७.४॥
अथर्ववेद - काण्ड » 20; सूक्त » 27; मन्त्र » 4
सूचना -
कृपया अस्य मन्त्रस्यार्थम् आर्य(हिन्दी)भाष्ये पश्यत।
टिप्पणीः - ४−(न) निषेधे (ते) तव (वर्ता) निवारकः (अस्ति) (राधसः) ऐश्वर्यस्य (इन्द्र) (देवः) विद्वान् पुरुषः (न) निषेधे (मर्त्यः) सामान्यो मनुष्यः (यत्) यदा (दित्ससि) दातुमिच्छसि (स्तुतः) (मघम्) मंहनीयं धनम् ॥
इस भाष्य को एडिट करें