Loading...
अथर्ववेद > काण्ड 20 > सूक्त 32

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 20/ सूक्त 32/ मन्त्र 3
    सूक्त - बरुः सर्वहरिर्वा देवता - हरिः छन्दः - त्रिष्टुप् सूक्तम् - सूक्त-३२

    अपाः॒ पूर्वे॑षां हरिवः सु॒ताना॒मथो॑ इ॒दं सव॑नं॒ केव॑लं ते। म॑म॒द्धि सोमं॒ मधु॑मन्तमिन्द्र स॒त्रा वृ॑षं ज॒ठर॒ आ वृ॑षस्व ॥

    स्वर सहित पद पाठ

    अपा॑: । पूर्वे॑षाम् । ह॒रि॒ऽव॒: । सु॒ताना॑म् । अथो॒ इति॑ । इ॒दम् । सव॑नम् । केव॑लम् । ते॒ ॥ म॒म॒ध्दि । सोम॑म् । मधु॑ऽमन्तम् । इ॒न्द्र॒ । स॒त्रा । वृ॒ष॒न् । ज॒ठरे॑ । आ । वृ॒ष॒स्व॒ ॥३२.३॥


    स्वर रहित मन्त्र

    अपाः पूर्वेषां हरिवः सुतानामथो इदं सवनं केवलं ते। ममद्धि सोमं मधुमन्तमिन्द्र सत्रा वृषं जठर आ वृषस्व ॥

    स्वर रहित पद पाठ

    अपा: । पूर्वेषाम् । हरिऽव: । सुतानाम् । अथो इति । इदम् । सवनम् । केवलम् । ते ॥ ममध्दि । सोमम् । मधुऽमन्तम् । इन्द्र । सत्रा । वृषन् । जठरे । आ । वृषस्व ॥३२.३॥

    अथर्ववेद - काण्ड » 20; सूक्त » 32; मन्त्र » 3

    टिप्पणीः - ३−(अपाः) पीतवानसि (पूर्वेषाम्) पूर्वमहात्मनाम् (हरिवः) अ०२०।३१।। हे श्रेष्ठमनुष्ययुक्त (सुतानाम्) निष्पादितानां सिद्धान्तानाम् (अथो) अपि च (इदम्) दृश्यमानम् (सवनम्) ऐश्वर्यम् (केवलम्) असाधारणम्। विशेषम् (ते) तव (ममद्धि) मदी आमोदे-शपः श्लुः। हर्षय। तर्पय (सोमम्) ऐश्वर्यम् (मधुमन्तम्) ज्ञानयुक्तम् (इन्द्र) हे परमैश्वर्यवन् राजन् (सत्रा) निघ०३।१०। सत्येन (वृषन्) हे महाबलवन् (जठरे) अ०२०।२४।। प्रादुर्भूते जगति (आ) समन्तात् (वृषस्व) वर्षय ॥

    इस भाष्य को एडिट करें
    Top