Loading...
अथर्ववेद > काण्ड 20 > सूक्त 32

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 20/ सूक्त 32/ मन्त्र 1
    सूक्त - बरुः सर्वहरिर्वा देवता - हरिः छन्दः - जगती सूक्तम् - सूक्त-३२

    आ रोद॑सी॒ हर्य॑माणो महि॒त्वा नव्यं॑नव्यं हर्यसि॒ मन्म॒ नु प्रि॒यम्। प्र प॒स्त्यमसुर हर्य॒तं गोरा॒विष्कृ॑धि॒ हर॑ये॒ सूर्या॑य ॥

    स्वर सहित पद पाठ

    आ । रोद॑सी॒ इति॑ । हर्य॑माण: । म॒हि॒ऽत्वा । नव्य॑म्ऽनव्यम् । ह॒र्य॒सि॒ । मन्म॑ ।नु । प्रि॒यम् ॥ प्र । प॒स्त्य॑म् । अ॒सु॒र॒ । ह॒र्य॒तम् । गो: । आ॒वि: । कृ॒धि॒ । हर॑ये । सूर्या॑य ॥३२.१॥


    स्वर रहित मन्त्र

    आ रोदसी हर्यमाणो महित्वा नव्यंनव्यं हर्यसि मन्म नु प्रियम्। प्र पस्त्यमसुर हर्यतं गोराविष्कृधि हरये सूर्याय ॥

    स्वर रहित पद पाठ

    आ । रोदसी इति । हर्यमाण: । महिऽत्वा । नव्यम्ऽनव्यम् । हर्यसि । मन्म ।नु । प्रियम् ॥ प्र । पस्त्यम् । असुर । हर्यतम् । गो: । आवि: । कृधि । हरये । सूर्याय ॥३२.१॥

    अथर्ववेद - काण्ड » 20; सूक्त » 32; मन्त्र » 1

    टिप्पणीः - यह सूक्त ऋग्वेद में है-१०।९६।११-१३॥१−(आ) समन्तात् (रोदसी) अ०४।१।४। रुधेः-असुन् धस्य दः, ङीप्। विभक्तेः पूर्वसवर्णदीर्घः। सर्वभूतरोधयित्र्यौ द्यावापृथिव्यौ-निघ०३।३०। (हर्यमाणः) हर्य गतिकान्त्योः-शानच्। प्राप्नुवन् (महित्वा) महत्त्वेन (नव्यंनव्यम्) नवीनं नवीनम् (हर्यसि) प्राप्नोषि (मन्म) मन ज्ञाने-मनिन्। ज्ञानम् (नु) क्षिप्रम् (प्रियम्) हितकरम् (पस्त्यम्) अ०२०।३१।। गृहम् (असुर) असुरिति प्रज्ञानामास्यत्यनर्थान्-निरु०१०।३४। रो मत्वर्थीयः। हे प्रज्ञावन् (हर्यतम्) प्रापणीयम् (गोः) विद्यायाः (आविष्कृधि) प्रकटीकुरु (हरये) दुःखनाशकाय (सूर्याय) सूर्यवत् प्रेरकाय विदुषे ॥

    इस भाष्य को एडिट करें
    Top