Loading...
अथर्ववेद > काण्ड 20 > सूक्त 41

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 20/ सूक्त 41/ मन्त्र 2
    सूक्त - गोतमः देवता - इन्द्रः छन्दः - गायत्री सूक्तम् - सूक्त-४१

    इ॒च्छनश्व॑स्य॒ यच्छिरः॒ पर्व॑ते॒ष्वप॑श्रितम्। तद्वि॑दच्छर्य॒णाव॑ति ॥

    स्वर सहित पद पाठ

    इ॒च्छन् । अश्व॑स्य । यत् । शिर॑: । पर्व॑तेषु । अप॑ऽश्रितम् ॥ तत् । वि॒द॒त् । श॒र्य॒णाऽव॑ति ॥४१.२॥


    स्वर रहित मन्त्र

    इच्छनश्वस्य यच्छिरः पर्वतेष्वपश्रितम्। तद्विदच्छर्यणावति ॥

    स्वर रहित पद पाठ

    इच्छन् । अश्वस्य । यत् । शिर: । पर्वतेषु । अपऽश्रितम् ॥ तत् । विदत् । शर्यणाऽवति ॥४१.२॥

    अथर्ववेद - काण्ड » 20; सूक्त » 41; मन्त्र » 2

    टिप्पणीः - २−(इच्छन्) कामयमानः (अश्वस्य) कर्मसु व्यापकस्य बलवतः पुरुषस्य (यत्) (शिरः) मस्तकसामर्थ्यम्। विचारशक्तिम् (पर्वतेषु) मेघेषु। मेघतुल्यसर्वोपकारिषु मनुष्येषु (अपश्रितम्) आसेवितम् (तत्) मस्तकसामर्थ्यम् (विदत्) अविदत्। प्राप्तवान् (शर्यणावति) मध्वादिभ्यश्च। पा० ४।२।८६। शर्यणा-मतुप्, शरयाणशब्दस्य शर्याण, शर्यणा इति रूपद्वयं पृषोदरादित्वात् शराणां तीराणां यानेन गमनेन युक्ते सङ्ग्रामे ॥

    इस भाष्य को एडिट करें
    Top