Loading...
अथर्ववेद > काण्ड 20 > सूक्त 41

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 20/ सूक्त 41/ मन्त्र 1
    सूक्त - गोतमः देवता - इन्द्रः छन्दः - गायत्री सूक्तम् - सूक्त-४१

    इन्द्रो॑ दधी॒चो अ॒स्थभि॑र्वृ॒त्राण्यप्र॑तिष्कुतः। ज॒घान॑ नव॒तीर्नव॑ ॥

    स्वर सहित पद पाठ

    इन्द्र॑: । द॒धी॒च: । अ॒स्थऽभि॑: । वृ॒त्राणि॑ । अप्र॑तिऽस्कुत: ॥ ज॒घान॑ । न॒व॒ती: । नव॑ ॥४१.१॥


    स्वर रहित मन्त्र

    इन्द्रो दधीचो अस्थभिर्वृत्राण्यप्रतिष्कुतः। जघान नवतीर्नव ॥

    स्वर रहित पद पाठ

    इन्द्र: । दधीच: । अस्थऽभि: । वृत्राणि । अप्रतिऽस्कुत: ॥ जघान । नवती: । नव ॥४१.१॥

    अथर्ववेद - काण्ड » 20; सूक्त » 41; मन्त्र » 1

    टिप्पणीः - यह तृच ऋग्वेद में है-१।८४।१३-१, सामवेद-उ० ३।१। ८, मन्त्र १ सामवेद पू० २।९।। और मन्त्र ३ पू० २।६।३ ॥ १−(इन्द्रः) परमैश्वर्यवान् सेनापतिः (दधीचः) भाषायां धाञ्कृञ्सृजनिगमिनमिभ्यः किकिनौ वक्तव्यौ। वा० पा० ३।२।१७१। दधातेः-कि प्रत्ययः, यद्वा सर्वधातुभ्य इन्। उ० ४।११८। दध दाने धारणे च-इन्। ऋत्विग्दधृक्स्रग्दिगुष्णिगञ्चुयुजिक्रुञ्चां च। पा० ३।२।९। दधि+अञ्चु गतिपूजनयोः अन्तर्गतण्यर्थः-क्विन्। दधिं पोषणम् अञ्चयति प्रापयतीति दध्यङ् तस्य। पोषणप्राप्तस्य पुरुषस्य दध्यङ् प्रत्यचो ध्यानमिति वा प्रत्यक्तमस्मिन् ध्यानमिति वा-निरु० १२।३३। (अस्थभिः) असिसञ्जिभ्यां क्थिन्। उ० ३।१४। अस भुवि, गतिदीप्त्यादानेषु, यद्वा असु क्षेपणे-क्थिन्। छन्दस्यपि दृश्यते। पा० ७।१।७६। अनङादेशः। गतिभिः। उपायैः (वृत्राणि) आवरकान् शत्रून् (अप्रतिष्कुतः) स्कुञ् आप्रवणे आगमने-क्त। अप्रतिष्कुतोऽप्रतिष्कृतोऽप्रतिस्खलितो वा-निरु० ६।१६। अप्रतिगतः। अनिरुद्धः (जघान) नाशितवान् (नव नवतीः) नव वारं नवतीः। दशोत्तराण्यष्टशतानि। बहुसंख्याकानि ॥

    इस भाष्य को एडिट करें
    Top