Sidebar
अथर्ववेद - काण्ड 20/ सूक्त 43/ मन्त्र 2
यद्वी॒डावि॑न्द्र॒ यत्स्थि॒रे यत्पर्शा॑ने॒ परा॑भृतम्। वसु॑ स्पा॒र्हं तदा भ॑र ॥
स्वर सहित पद पाठयत् । वी॒लौ । इ॒न्द्र॒ । यत् । स्थि॒रे । यत् । पर्शा॑ने । परा॑भृतम् । वसु॑ । स्पा॒र्हम् । तत् । आ । भ॒र॒ ॥४३.२॥
स्वर रहित मन्त्र
यद्वीडाविन्द्र यत्स्थिरे यत्पर्शाने पराभृतम्। वसु स्पार्हं तदा भर ॥
स्वर रहित पद पाठयत् । वीलौ । इन्द्र । यत् । स्थिरे । यत् । पर्शाने । पराभृतम् । वसु । स्पार्हम् । तत् । आ । भर ॥४३.२॥
अथर्ववेद - काण्ड » 20; सूक्त » 43; मन्त्र » 2
सूचना -
कृपया अस्य मन्त्रस्यार्थम् आर्य(हिन्दी)भाष्ये पश्यत।
टिप्पणीः - २−(यत्) धनम् (वीडौ) भृमृशीङ्०। उ० १।७। वीडयतिः संस्तम्भकर्मा-निरु० ।१६-डप्रत्ययः। वीडु बलनाम-निघ० २।९। बले। सैन्ये (इन्द्र) हे परमैश्वर्यवन् राजन् (यत्) (स्थिरे) दृढस्थाने (यत्) (पर्शाने) अ० ८।४।। परि+शॄ हिंसायाम्-आनच्, डित्, परे रिकारलोपः। पर्शानो मेघः-टिप्पणी, निघ० १।१०। मेघे। वर्षाजले (पराभृतम्) न्यस्तम्। अन्यत् पूर्ववत् ॥
इस भाष्य को एडिट करें