Sidebar
अथर्ववेद - काण्ड 20/ सूक्त 43/ मन्त्र 3
यस्य॑ ते वि॒श्वमा॑नुषो॒ भूरे॑र्द॒त्तस्य॒ वेद॑ति। वसु॑ स्पा॒र्हं तदा भ॑र ॥
स्वर सहित पद पाठयस्य॑ । ते॒ । वि॒श्वऽमा॑नुष: । भूरे॑: । द॒त्तस्य॑ । वेद॑ति ॥ वसु॑ । स्पा॒र्हम् । तत् । आ । भ॒र॒ ॥४३.३॥
स्वर रहित मन्त्र
यस्य ते विश्वमानुषो भूरेर्दत्तस्य वेदति। वसु स्पार्हं तदा भर ॥
स्वर रहित पद पाठयस्य । ते । विश्वऽमानुष: । भूरे: । दत्तस्य । वेदति ॥ वसु । स्पार्हम् । तत् । आ । भर ॥४३.३॥
अथर्ववेद - काण्ड » 20; सूक्त » 43; मन्त्र » 3
सूचना -
कृपया अस्य मन्त्रस्यार्थम् आर्य(हिन्दी)भाष्ये पश्यत।
टिप्पणीः - ३−(यस्य) (ते) तव (विश्वमानुषः) विश्वस्य संसारस्य प्रत्येकमनुष्यः (भूरेः) प्रभूतस्य (दत्तस्य) दानस्य (वेदति) लेटि रूपम्। ज्ञानं कुर्यात्। अन्यत् पूर्ववत् ॥
इस भाष्य को एडिट करें