Sidebar
अथर्ववेद - काण्ड 20/ सूक्त 44/ मन्त्र 2
यस्मि॑न्नु॒क्थानि॒ रण्य॑न्ति॒ विश्वा॑नि च श्रवस्या। अ॒पामवो॒ न स॑मु॒द्रे ॥
स्वर सहित पद पाठयस्मि॑न् । उ॒क्था॑नि । रण्य॑न्ति । विश्वा॑नि । च॒ । श्र॒व॒स्या॑ ॥ अ॒पाम् । अव॑ । न । स॒मु॒द्रे ॥४४.२॥
स्वर रहित मन्त्र
यस्मिन्नुक्थानि रण्यन्ति विश्वानि च श्रवस्या। अपामवो न समुद्रे ॥
स्वर रहित पद पाठयस्मिन् । उक्थानि । रण्यन्ति । विश्वानि । च । श्रवस्या ॥ अपाम् । अव । न । समुद्रे ॥४४.२॥
अथर्ववेद - काण्ड » 20; सूक्त » 44; मन्त्र » 2
सूचना -
कृपया अस्य मन्त्रस्यार्थम् आर्य(हिन्दी)भाष्ये पश्यत।
टिप्पणीः - २−(यस्मिन्) पुरुषे (उक्थानि) वक्तव्यानि वचनानि (रण्यन्ति) अ० २०।१७।६। गच्छन्ति (विश्वानि) सर्वाणि (च) (श्रवस्या) अ० २०।१२।१। धनाय हितानि कर्माणि (अपाम्) जलानाम् (अवः) अव गतौ-असुन्। गमनम् (न) यथा (समुद्रे) उदधौ ॥
इस भाष्य को एडिट करें