अथर्ववेद - काण्ड 20/ सूक्त 48/ मन्त्र 2
ता अ॑र्षन्ति शु॒भ्रियः॑ पृञ्च॒तीर्वर्च॑सा॒ प्रि॒यः॑। जा॒तं जा॒त्रीर्यथा॑ हृ॒दा ॥
स्वर सहित पद पाठता: । अ॑र्षन्ति । शु॒भ्रिय॒: । पृञ्च॑न्ती॒: । वर्च॑सा । प्रि॒य: ॥ जा॒तम् । जा॒त्री: । यथा॑ । हृ॒दा ॥४८.२॥
स्वर रहित मन्त्र
ता अर्षन्ति शुभ्रियः पृञ्चतीर्वर्चसा प्रियः। जातं जात्रीर्यथा हृदा ॥
स्वर रहित पद पाठता: । अर्षन्ति । शुभ्रिय: । पृञ्चन्ती: । वर्चसा । प्रिय: ॥ जातम् । जात्री: । यथा । हृदा ॥४८.२॥
अथर्ववेद - काण्ड » 20; सूक्त » 48; मन्त्र » 2
सूचना -
कृपया अस्य मन्त्रस्यार्थम् आर्य(हिन्दी)भाष्ये पश्यत।
टिप्पणीः - २−(ताः) गिरः-म० १ (अर्षन्ति) ऋषी गतौ। प्राप्नुवन्ति। गृह्णन्ति (शुभ्रियः) अदिशदिभृशुभिभ्यः क्रिन्। उ० ४।६। शुभ शोभायाम्-क्रिन्, ङीप्। शुद्धाः (पृञ्चन्तीः) सम्पर्कं कुर्वन्त्यः (वर्चसा) तेजसा (प्रियः) प्रीञ् तर्पणे कान्तौ च-क्विप्। तर्पयित्र्यः (जातम्) उत्पन्नं सन्तानम् (जात्रीः) सर्वधातुभ्यः ष्ट्रन्। उ० ४।१९। जन जनने-ष्ट्रन्, ङीष्। जनयित्र्यः। जनन्यः (यथा) (हृदा) हृदयेन ॥
इस भाष्य को एडिट करें