Sidebar
अथर्ववेद - काण्ड 20/ सूक्त 52/ मन्त्र 2
स्वर॑न्ति त्वा सु॒ते नरो॒ वसो॑ निरे॒क उ॒क्थिनः॑। क॒दा सु॒तं तृ॑षा॒ण ओ॑क॒ आ ग॑म॒ इन्द्र॑ स्व॒ब्दीव॒ वंस॑गः ॥
स्वर सहित पद पाठस्वर॑न्ति । त्वा॒ । सु॒ते । नर॑: । वसो॒ इति॑ । नि॒रे॒के । उ॒क्थिन॑: ॥ क॒दा । सु॒तम् । तृ॒षा॒ण: । ओक॑: । आ । ग॒म॒: । इन्द्र॑ । स्व॒ब्दीऽइ॑व । वंस॑ग: ॥५२.२॥
स्वर रहित मन्त्र
स्वरन्ति त्वा सुते नरो वसो निरेक उक्थिनः। कदा सुतं तृषाण ओक आ गम इन्द्र स्वब्दीव वंसगः ॥
स्वर रहित पद पाठस्वरन्ति । त्वा । सुते । नर: । वसो इति । निरेके । उक्थिन: ॥ कदा । सुतम् । तृषाण: । ओक: । आ । गम: । इन्द्र । स्वब्दीऽइव । वंसग: ॥५२.२॥
अथर्ववेद - काण्ड » 20; सूक्त » 52; मन्त्र » 2
सूचना -
कृपया अस्य मन्त्रस्यार्थम् आर्य(हिन्दी)भाष्ये पश्यत।
टिप्पणीः - २−(स्वरन्ति) शब्दायन्ते। आह्वयन्ति (त्वा) त्वाम् (सुते) सारपदार्थनिमित्ते (नरः) मनुष्याः (वसो) हे श्रेष्ठ (निरेके) रेक शङ्कायाम्-अच्। निःशङ्कस्थाने (उक्थिनः) वक्तव्यवचनोपेताः (कदा) (सुतम्) पुत्रम् (तृषाणः) युधिबुधिदृशः किच्च। उ० २।९०। ञितृषा पिपासायाम्-आनच्, कित्। पिपासुरिव (ओकः) गृहम् (आ गमः) आगच्छेः (इन्द्र) हे परमैश्वर्यवन् परमात्मन् (स्वब्दी) सु+अप्+ददातेः-क, स्वब्द-इनि। सु शोभनानाम् अपां जलानां दानवान् मेघः (इव) यथा (वंसगः) अ० १८।३।३६। वन संभक्तौ-सप्रत्ययः+गमयतेर्डः। सेवनीयपदार्थानां प्रापयिता ॥
इस भाष्य को एडिट करें