Loading...
अथर्ववेद > काण्ड 20 > सूक्त 54

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 20/ सूक्त 54/ मन्त्र 2
    सूक्त - रेभः देवता - इन्द्रः छन्दः - उपरिष्टाद्बृहती सूक्तम् - सूक्त-५४

    समीं॑ रे॒भासो॑ अस्वर॒न्निन्द्रं॒ सोम॑स्य पी॒तये॑। स्वर्पतिं॒ यदीं॑ वृ॒धे धृ॒तव्र॑तो॒ ह्योज॑सा॒ समू॒तिभिः॑ ॥

    स्वर सहित पद पाठ

    सम् । ई॒म् । रे॒भास॑: । अ॒स्व॒र॒न् । इन्द्र॑म् । सोम॑स्य । पी॒तवे॑ ॥ स्व॑:अपतिम् । यत् । ई॒म् । वृ॒धे । धृ॒तऽव्र॑त: । हि । ओज॑सा । सम् । ऊ॒तिऽभि॑: ॥५४.२॥


    स्वर रहित मन्त्र

    समीं रेभासो अस्वरन्निन्द्रं सोमस्य पीतये। स्वर्पतिं यदीं वृधे धृतव्रतो ह्योजसा समूतिभिः ॥

    स्वर रहित पद पाठ

    सम् । ईम् । रेभास: । अस्वरन् । इन्द्रम् । सोमस्य । पीतवे ॥ स्व:अपतिम् । यत् । ईम् । वृधे । धृतऽव्रत: । हि । ओजसा । सम् । ऊतिऽभि: ॥५४.२॥

    अथर्ववेद - काण्ड » 20; सूक्त » 54; मन्त्र » 2

    टिप्पणीः - २−(सम्) संगत्य (ईम्) प्राप्तव्यम् (रेभासः) रेभृ शब्दे-अच् असुक् च। शब्दायमानाः प्रजाजनाः (अस्वरन्) अशब्दयन्। आहूतवन्तः (इन्द्रम्) परमैश्वर्यवन्तं पुरुषम् (सोमस्य) तत्त्वरसस्य (पीतये) पानाय (स्वर्पतिम्) सुखस्य रक्षकम् (यत्) यदा (ईम्) वीप्सायां द्विर्वचनम्। प्राप्तव्यमेव (वृधे) वृद्धये (धृतव्रतः) स्वीकृतनियमः (हि) निश्चयेन (ओजसा) बलेन (सम्) संगत्य (ऊतिभिः) रक्षाभिः ॥

    इस भाष्य को एडिट करें
    Top