Sidebar
अथर्ववेद - काण्ड 20/ सूक्त 54/ मन्त्र 3
ने॒मिं न॑मन्ति॒ चक्ष॑सा मे॒षं विप्रा॑ अभि॒स्वरा॑। सु॑दी॒तयो॑ वो अ॒द्रुहो॑ऽपि॒ कर्णे॑ तर॒स्विनः॒ समृक्व॑भिः ॥
स्वर सहित पद पाठने॒मिम् । न॒म॒न्ति॒ । चक्ष॑सा । मे॒षम् । विप्रा॑: । अ॒भि॒ऽस्वरा॑ ॥ सु॒ऽदी॒तय॑:। व॒: । अ॒द्रुह॑: । अपि॑ । कर्णे॑ । त॒र॒स्विन॑: । सम् । ऋक्व॑ऽभि: ॥५४.३॥
स्वर रहित मन्त्र
नेमिं नमन्ति चक्षसा मेषं विप्रा अभिस्वरा। सुदीतयो वो अद्रुहोऽपि कर्णे तरस्विनः समृक्वभिः ॥
स्वर रहित पद पाठनेमिम् । नमन्ति । चक्षसा । मेषम् । विप्रा: । अभिऽस्वरा ॥ सुऽदीतय:। व: । अद्रुह: । अपि । कर्णे । तरस्विन: । सम् । ऋक्वऽभि: ॥५४.३॥
अथर्ववेद - काण्ड » 20; सूक्त » 54; मन्त्र » 3
सूचना -
कृपया अस्य मन्त्रस्यार्थम् आर्य(हिन्दी)भाष्ये पश्यत।
टिप्पणीः - ३−(नेमिम्) नियो मिः। उ० ४।४३। णीञ् प्रापणे-मि। नेतारम् (नमन्ति) नमस्कुर्वन्ति (चक्षसा) दर्शनेन (मेषम्) मिष सेचने-अच्। सुखस्य सेक्तारम् (विप्राः) मेधाविनः (अभिस्वरा) स्वृ शब्दोपतापयोः-विट्। अभिस्वरेण। सर्वतः शब्देन (सुदीतयः) पलोपः। शोभनदीप्तयः (वः) युष्मभ्यम् (अद्रुहः) अद्रोग्धारः (अपि) (कर्णे) श्रोत्रे (तरस्विनः) उत्साहिनः (सम्) संगत्य (ऋक्वभिः) अ० १८।१।४७। ऋच स्तुतौ-क्विप्, मत्वर्थे-वनिप्। स्तुतिमद्भिः कर्मभिः ॥
इस भाष्य को एडिट करें