Loading...
अथर्ववेद > काण्ड 20 > सूक्त 58

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 20/ सूक्त 58/ मन्त्र 2
    सूक्त - नृमेधः देवता - इन्द्रः छन्दः - प्रगाथः सूक्तम् - सूक्त-५८

    अन॑र्शरातिं वसु॒दामुप॑ स्तुहि भ॒द्रा इन्द्र॑स्य रा॒तयः॑। सो अ॑स्य॒ कामं॑ विध॒तो न रो॑षति॒ मनो॑ दा॒नाय॑ चो॒दय॑न् ॥

    स्वर सहित पद पाठ

    अन॑र्शऽरातिम् । व॒सु॒ऽदााम् । उप॑ । स्तु॒हि॒ । भ॒द्रा: । इन्द्र॑स्य । रा॒तय॑: ॥ स: । अ॒स्य॒ । काम॑म् । वि॒ध॒त: । न । रो॒ष॒ति॒ । मन॑: । दा॒नाय॑ । चो॒दय॑न् ॥५८.२॥


    स्वर रहित मन्त्र

    अनर्शरातिं वसुदामुप स्तुहि भद्रा इन्द्रस्य रातयः। सो अस्य कामं विधतो न रोषति मनो दानाय चोदयन् ॥

    स्वर रहित पद पाठ

    अनर्शऽरातिम् । वसुऽदााम् । उप । स्तुहि । भद्रा: । इन्द्रस्य । रातय: ॥ स: । अस्य । कामम् । विधत: । न । रोषति । मन: । दानाय । चोदयन् ॥५८.२॥

    अथर्ववेद - काण्ड » 20; सूक्त » 58; मन्त्र » 2

    टिप्पणीः - २−(अनर्शरातिम्) ऋश हिंसायाम्-अच्, सौत्रो धातुः। अनर्शरातिमनश्लीलदानमश्लीलं पापकमश्रिमद् विषमम्-निरु० ६।२३। निर्दोषदानम् (वसुदाम्) धनस्य दातारम् (उप) पूजायाम् (स्तुहि) प्रशंस (भद्राः) कल्याण्यः (इन्द्रस्य) परमैश्वर्यवतः परमेश्वरस्य (रातयः) दानानि (सः) परमात्मा (अस्य) उपासकस्य (कामम्) मनोरथम् (विधतः) परिचरतः पुरुषस्य (न) निषेधे (रोषति) हिनस्ति। नाशयति (मनः) अन्तःकरणम् (दानाय) (चोदयन्) प्रेरयन् सन् ॥

    इस भाष्य को एडिट करें
    Top