Loading...
अथर्ववेद > काण्ड 20 > सूक्त 59

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 20/ सूक्त 59/ मन्त्र 4
    सूक्त - वसिष्ठः देवता - इन्द्रः छन्दः - प्रगाथः सूक्तम् - सूक्त-५९

    मन्त्र॒मख॑र्वं॒ सुधि॑तं सु॒पेश॑सं॒ दधा॑त य॒ज्ञिये॒ष्वा। पू॒र्वीश्च॒न प्रसि॑तयस्तरन्ति॒ तं य इन्द्रे॒ कर्म॑णा॒ भुव॑त् ॥

    स्वर सहित पद पाठ

    मन्त्र॑म् । अख॑र्वम् । सुऽधि॑तम् । सु॒ऽपेश॑सम् । दधा॑त । य॒ज्ञिये॑षु । आ ॥ पू॒र्वी: । च॒न । प्रऽसि॑तय: । त॒र॒न्ति॒ । तम् । य: । इन्द्रे॑ । कर्म॑णा । भुव॑त् ॥५९.४॥


    स्वर रहित मन्त्र

    मन्त्रमखर्वं सुधितं सुपेशसं दधात यज्ञियेष्वा। पूर्वीश्चन प्रसितयस्तरन्ति तं य इन्द्रे कर्मणा भुवत् ॥

    स्वर रहित पद पाठ

    मन्त्रम् । अखर्वम् । सुऽधितम् । सुऽपेशसम् । दधात । यज्ञियेषु । आ ॥ पूर्वी: । चन । प्रऽसितय: । तरन्ति । तम् । य: । इन्द्रे । कर्मणा । भुवत् ॥५९.४॥

    अथर्ववेद - काण्ड » 20; सूक्त » 59; मन्त्र » 4

    टिप्पणीः - ४−(मन्त्रम्) मन्तव्यं विचारम् (अखर्वम्) खर्व गतौ दर्पे च-अच्। अनीचम्। धार्मिकम् (सुधितम्) दधातेः-क्त। सुविहितम्। सुष्ठु व्यवस्थापितम् (सुपेशसम्) पेशो हिरण्यनाम-निघ० १।२। सुपेशांसि शोभनानि सुवर्णादिधनानि यस्मात् तम् (दधात) धत्त (यज्ञियेषु) पूजार्हेषु व्यवहारेषु (आ) समन्तात् (पूर्वीः) प्राचीनाः (चन) अपि (प्रसितयः) उत्तमप्रबन्धाः (तरन्ति) पारयन्ति (तम्) पुरुषम् (यः) (इन्द्रे) ऐश्वर्यवति राजनि निमित्ते (कर्मणा) सत्क्रियया (भुवत्) भवेत् ॥

    इस भाष्य को एडिट करें
    Top