Loading...
अथर्ववेद > काण्ड 20 > सूक्त 63

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 20/ सूक्त 63/ मन्त्र 6
    सूक्त - गोतमः देवता - इन्द्रः छन्दः - उष्णिक् सूक्तम् - सूक्त-६३

    यश्चि॒द्धि त्वा॑ ब॒हुभ्य॒ आ सु॒तावाँ॑ आ॒विवा॑सति। उ॒ग्रं तत्प॑त्यते॒ शव॒ इन्द्रो॑ अ॒ङ्ग ॥

    स्वर सहित पद पाठ

    य: । चि॒त् । हि । त्वा॒ । ब॒हुऽभ्य॑: । आ । सु॒तऽवा॑न् । आ॒विवा॑सति । उ॒ग्रम् । तत् । प॒त्य॒ते॒ । शव॑: । इन्द्र॑: । अ॒ङ्ग ॥६३.६॥


    स्वर रहित मन्त्र

    यश्चिद्धि त्वा बहुभ्य आ सुतावाँ आविवासति। उग्रं तत्पत्यते शव इन्द्रो अङ्ग ॥

    स्वर रहित पद पाठ

    य: । चित् । हि । त्वा । बहुऽभ्य: । आ । सुतऽवान् । आविवासति । उग्रम् । तत् । पत्यते । शव: । इन्द्र: । अङ्ग ॥६३.६॥

    अथर्ववेद - काण्ड » 20; सूक्त » 63; मन्त्र » 6

    टिप्पणीः - ६−(यः चित्) यः कश्चित् (हि) एव (त्वा) त्वाम्। प्रजागणम् (बहुभ्यः) बहुमनुष्येभ्यः सकाशात् (आ) अवधारणे (सुतवान्) तत्त्वरसेन युक्तः (आविवासति) समन्तात् परिचरति (उग्रम्) प्रचण्डम् (तत्) तस्मात् कारणात् (पत्यते) प्राप्नोति (शवः) बलम् (इन्द्रः) परमैश्वर्यवान् सभापतिः (अङ्ग) हे मित्र ॥

    इस भाष्य को एडिट करें
    Top