अथर्ववेद - काण्ड 20/ सूक्त 64/ मन्त्र 4
एदु॒ मध्वो॑ म॒दिन्त॑रं सि॒ञ्च वा॑ध्वर्यो॒ अन्ध॑सः। ए॒वा हि वी॒र स्तव॑ते स॒दावृ॑धः ॥
स्वर सहित पद पाठआ । इत् । ऊं॒ इति॑ । मध्व॑: । म॒दिन्ऽत॑रम् । सि॒ञ्च । वा॒ । अ॒ध्व॒र्यो॒ इति॑ । अन्ध॑स: ॥ ए॒व । हि । वी॒र: । स्तव॑ते । स॒दाऽवृ॑ध: ॥६४.४॥
स्वर रहित मन्त्र
एदु मध्वो मदिन्तरं सिञ्च वाध्वर्यो अन्धसः। एवा हि वीर स्तवते सदावृधः ॥
स्वर रहित पद पाठआ । इत् । ऊं इति । मध्व: । मदिन्ऽतरम् । सिञ्च । वा । अध्वर्यो इति । अन्धस: ॥ एव । हि । वीर: । स्तवते । सदाऽवृध: ॥६४.४॥
अथर्ववेद - काण्ड » 20; सूक्त » 64; मन्त्र » 4
सूचना -
कृपया अस्य मन्त्रस्यार्थम् आर्य(हिन्दी)भाष्ये पश्यत।
टिप्पणीः - मन्त्र ४-६ ऋग्वेद में हैं-८।२४।१६-१८, कुछ भेद से सामवेद-उ० ८।२। तृच १०, मन्त्र ४-साम०-पू० ४।१०। ॥ ४−(आ) समन्तात् (इत्) अवश्यम् (उ) अवधारणे (मध्वः) मधुनः। निश्चितज्ञानस्य (मदिन्तरम्) नाद् घस्य। पा० ८।२।१७। इति तरपो नुडागमः। मादयितृतरं रसम् (सिञ्च) सिक्तं कुरु (वा) चार्थे (अध्वर्यो) अ० १८।४।१। हे अहिंसामिच्छुक (एव) एवम् (हि) निश्चयेन (वीरः) शूरः (स्तवते) स्तूयते (सदावृधः) सर्वदा वर्धयिता ॥
इस भाष्य को एडिट करें