अथर्ववेद - काण्ड 20/ सूक्त 64/ मन्त्र 6
तं वो॒ वाजा॑नां॒ पति॒महू॑महि श्रव॒स्यवः॑। अप्रा॑युभिर्य॒ज्ञेभि॑र्वावृ॒धेन्य॑म् ॥
स्वर सहित पद पाठतम् । व॒: । वाजा॑नाम् । पति॑म् । अहू॑महि । अ॒व॒स्यव॑: ॥ अप्रा॑युऽभि: । य॒ज्ञेभि॑: । व॒वृ॒धेन्य॑म् ॥६४.६॥
स्वर रहित मन्त्र
तं वो वाजानां पतिमहूमहि श्रवस्यवः। अप्रायुभिर्यज्ञेभिर्वावृधेन्यम् ॥
स्वर रहित पद पाठतम् । व: । वाजानाम् । पतिम् । अहूमहि । अवस्यव: ॥ अप्रायुऽभि: । यज्ञेभि: । ववृधेन्यम् ॥६४.६॥
अथर्ववेद - काण्ड » 20; सूक्त » 64; मन्त्र » 6
सूचना -
कृपया अस्य मन्त्रस्यार्थम् आर्य(हिन्दी)भाष्ये पश्यत।
टिप्पणीः - ६−(तम्) प्रसिद्धम् (वः) युष्मदर्थम् (वाजानाम्) बलानाम् (पतिम्) स्वामिनम् (अहूमहि) ह्वयतेर्लुङ्। वयमाहूतवन्तः (श्रवस्यवः) कीर्तिकामाः (अप्रायुभिः) न+प्र+आङ्+युञ् बन्धने, यद्वा युङ् निन्दने-डु। निर्बन्धैः। निरालसैः। अप्रमोदिभिः (यज्ञेभिः) पूजनीयव्यवहारैः (ववृधेन्यम्) वृञ एण्यः। उ० ३।९८। वृधु वृद्धौ-एण्यः, स च कित् द्वित्वं च, अन्तर्गतण्यर्थः। वर्धयितारम् ॥
इस भाष्य को एडिट करें