Loading...
अथर्ववेद > काण्ड 20 > सूक्त 65

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 20/ सूक्त 65/ मन्त्र 1
    सूक्त - विश्वमनाः देवता - इन्द्रः छन्दः - उष्णिक् सूक्तम् - सूक्त-६५

    एतो॒ न्विन्द्रं॒ स्तवा॑म॒ सखा॑यः॒ स्तोम्यं॒ नर॑म्। कृ॒ष्टीर्यो विश्वा॑ अ॒भ्य॒स्त्येक॒ इत् ॥

    स्वर सहित पद पाठ

    एतो॒ इत‍ि॑ । नु । इन्द्र॑म् । स्तवा॑म । सखा॑य: । स्तोम्य॑म् । नर॑म् ॥ कृ॒ष्टी: । य: । विश्वा॑: । अ॒भि । अस्ति॑। एक॑: । इत् ॥६५.१॥


    स्वर रहित मन्त्र

    एतो न्विन्द्रं स्तवाम सखायः स्तोम्यं नरम्। कृष्टीर्यो विश्वा अभ्यस्त्येक इत् ॥

    स्वर रहित पद पाठ

    एतो इत‍ि । नु । इन्द्रम् । स्तवाम । सखाय: । स्तोम्यम् । नरम् ॥ कृष्टी: । य: । विश्वा: । अभि । अस्ति। एक: । इत् ॥६५.१॥

    अथर्ववेद - काण्ड » 20; सूक्त » 65; मन्त्र » 1

    टिप्पणीः - मन्त्र १-३ ऋग्वेद में है-गत सूक्त से आगे, ८।२४।१९-२१। म० १ साम०-पू० ४।१०।७ ॥ १−(एतो) आ, इत उ। आगच्छतैव (नु) क्षिप्रम् (इन्द्रम्) परमेश्वरम् (स्तवाम) प्रशंसाम (सखायः) हे सुहृदः (स्तोम्यम्) स्तुतियोग्यम् (नरम्) नेतारम्। प्रेरकम् (कृष्टीः) मनुष्यप्रजाः (विश्वाः) सर्वाः (यः) (अभि अस्ति) अभिभवति। वशीकरोति (एकः) असहायः (इत्) एव ॥

    इस भाष्य को एडिट करें
    Top