Sidebar
अथर्ववेद - काण्ड 20/ सूक्त 65/ मन्त्र 2
अगो॑रुधाय ग॒विषे॑ द्यु॒क्षाय॒ दस्म्यं॒ वचः॑। घृ॒तात्स्वादी॑यो॒ मधु॑नश्च वोचत ॥
स्वर सहित पद पाठअगो॑ऽरुधाय । गो॒ऽइषे॑ । द्युक्षाय॑ । दस्म्य॑म् । वच॑: ॥ घृ॒तात् । स्वादी॑य: । मधु॑न: । च॒ । वो॒च॒त॒ ॥६५.२॥
स्वर रहित मन्त्र
अगोरुधाय गविषे द्युक्षाय दस्म्यं वचः। घृतात्स्वादीयो मधुनश्च वोचत ॥
स्वर रहित पद पाठअगोऽरुधाय । गोऽइषे । द्युक्षाय । दस्म्यम् । वच: ॥ घृतात् । स्वादीय: । मधुन: । च । वोचत ॥६५.२॥
अथर्ववेद - काण्ड » 20; सूक्त » 65; मन्त्र » 2
सूचना -
कृपया अस्य मन्त्रस्यार्थम् आर्य(हिन्दी)भाष्ये पश्यत।
टिप्पणीः - २−(अगोरुधाय) गमेर्डोः। उ० २।६७। गच्छतेर्डो, रुधिर् आवरणे-कप्रत्ययः। अदृष्टिरोधकस्य (गविषे) गो+इषु इच्छायाम्-क्विप्। गौः स्तोतृनाम-निघ० ३।१६। स्तोतॄन् इच्छवे (द्युक्षाय) अ० २०।९।२। व्यवहारेषु गतिशीलाय (दस्म्यम्) अ० २०।१७।२। दस्म-यत्। दर्शनार्हम्। विचारणीयम् (वचः) वचनम् (घृतात्) आज्यात् (स्वादीयः) स्वादुतरम् (मधुनः) रसविशेषम् (च) (वोचत) लोडर्थे लुङ्, अडभावः। ब्रूत ॥
इस भाष्य को एडिट करें