Loading...
अथर्ववेद > काण्ड 20 > सूक्त 67

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 20/ सूक्त 67/ मन्त्र 4
    सूक्त - गृत्समदः देवता - मरुद्गणः छन्दः - जगती सूक्तम् - सूक्त-६७

    य॒ज्ञैः संमि॑श्लाः॒ पृष॑तीभिरृ॒ष्टिभि॒र्यामं॑ छु॒भ्रासो॑ अ॒ञ्जिषु॑ प्रि॒या उ॒त। आ॒सद्या॑ ब॒र्हिर्भ॑रतस्य सूनवः पो॒त्रादा सोमं॑ पिबता दिवो नरः ॥

    स्वर सहित पद पाठ

    य॒ज्ञै: । सम्ऽमि॑श्ला: । पृष॑तीभि: । ऋ॒ष्टिऽभि॑: । याम॑न् । शु॒भ्रास॑: । अ॒ञ्जिषु॑ । प्रि॒या: । उ॒त ॥ आ॒ऽसद्य॑ । ब॒र्हि: । भ॒र॒त॒स्य॒ । सू॒न॒व॒: । पो॒त्रात् । आ । सोम॑म् । पि॒ब॒त॒ । दि॒व॒: । न॒र॒: ॥६७.४॥


    स्वर रहित मन्त्र

    यज्ञैः संमिश्लाः पृषतीभिरृष्टिभिर्यामं छुभ्रासो अञ्जिषु प्रिया उत। आसद्या बर्हिर्भरतस्य सूनवः पोत्रादा सोमं पिबता दिवो नरः ॥

    स्वर रहित पद पाठ

    यज्ञै: । सम्ऽमिश्ला: । पृषतीभि: । ऋष्टिऽभि: । यामन् । शुभ्रास: । अञ्जिषु । प्रिया: । उत ॥ आऽसद्य । बर्हि: । भरतस्य । सूनव: । पोत्रात् । आ । सोमम् । पिबत । दिव: । नर: ॥६७.४॥

    अथर्ववेद - काण्ड » 20; सूक्त » 67; मन्त्र » 4

    टिप्पणीः - मन्त्र ४-६ ऋग्वेद में है-२।३६।२, ४, ॥ ४−(यज्ञैः) पूजनीयव्यवहारैः (संमिश्लाः) अ० २०।३८।। मिश्रयतेः-घञ् भावे। सर्वतो मिश्रिताः सज्जीकृताः (पृषतीभिः) अ० १३।१।२१। पृषु सेचने-अति, ङीष्। सेचनक्रियाभिः (ऋष्टिभिः) अ० ८।३।७। ऋषी गतौ-क्तिन्। उभयतो धारयुक्तैः खड्गैः (यामन्) यामनि। प्राप्ते काले (शुभ्रासः) शुभ्राः शोभमानाः (अञ्जिषु) खनिकष्यञ्ज्यसि०। उ० ४।१४०। अञ्जू व्यक्तिम्रक्षणकान्तिगतिषु-इप्रत्ययः। कमनीयेषु कर्मसु (प्रियाः) प्रीतिकराः (उत) अपि (आसद्य) प्राप्य (बर्हिः) उत्तमासनम् (भरतस्य) भृमृदृशियजि०। उ० ३।११०। डुभृञ् धारणपोषणयोः-अतच्। धारकस्य पुरुषस्य (सूतवः) पुत्राः (पोत्रात्) अ० २०।२।१। पवित्रव्यवहारात् (आ) समन्तात् (सोमम्) तत्त्वरसम् (पिबत) पानं कुरुत। अनुभवत (दिवः) दिवु विजिगीषायाम्-क्विप्। हे जिगीषवः (नरः) नेतारः पुरुषाः ॥

    इस भाष्य को एडिट करें
    Top