Loading...
अथर्ववेद > काण्ड 20 > सूक्त 67

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 20/ सूक्त 67/ मन्त्र 6
    सूक्त - गृत्समदः देवता - इन्द्रः छन्दः - जगती सूक्तम् - सूक्त-६७

    ए॒ष स्य ते॑ त॒न्वो नृम्ण॒वर्ध॑नः॒ सह॒ ओजः॑ प्र॒दिवि॑ बा॒ह्वोर्हि॒तः। तुभ्यं॑ सु॒तो म॑घव॒न्तुभ्य॒माभृ॑त॒स्त्वम॑स्य॒ ब्राह्म॑णा॒दा तृ॒पत्पि॑ब ॥

    स्वर सहित पद पाठ

    ए॒ष: । स्य । ते॒ । त॒न्व॑: । नृ॒म्ण॒ऽवर्ध॑न: । सह॑:। ओज॑: । प्र॒दिवि॑ । बा॒ह्वो: । हि॒त: ॥ तुभ्य॑म् । सु॒त: । म॒घ॒ऽव॒न् । तुभ्य॑म् । आऽभृ॑त: । त्वम् । अ॒स्य॒ । ब्राह्म॑णात् । आ । तृ॒पत् । पि॒ब॒ ॥६७.६॥


    स्वर रहित मन्त्र

    एष स्य ते तन्वो नृम्णवर्धनः सह ओजः प्रदिवि बाह्वोर्हितः। तुभ्यं सुतो मघवन्तुभ्यमाभृतस्त्वमस्य ब्राह्मणादा तृपत्पिब ॥

    स्वर रहित पद पाठ

    एष: । स्य । ते । तन्व: । नृम्णऽवर्धन: । सह:। ओज: । प्रदिवि । बाह्वो: । हित: ॥ तुभ्यम् । सुत: । मघऽवन् । तुभ्यम् । आऽभृत: । त्वम् । अस्य । ब्राह्मणात् । आ । तृपत् । पिब ॥६७.६॥

    अथर्ववेद - काण्ड » 20; सूक्त » 67; मन्त्र » 6

    टिप्पणीः - ६−(एषः स्यः) स एव (ते) तव (तन्वः) शरीरस्य (नृम्णवर्धनः) अ० ४।२४।३। धनवर्धकः (सहः) बलम् (ओजः) पराक्रमः (प्रदिवि) दिवु व्यवहारे-क्विप्। उत्तमव्यवहारे (बाह्वोः) भुजयोः (हितः) धृतः (तुभ्यम्) (सुतः) संस्कृतस्तत्त्वरसः (मघवन्) हे धनवन् (तुभ्यम्) (आभृतः) समन्ताद् धारितः (त्वम्) (अस्य) तत्त्वरसस्य (ब्राह्मणात्) ब्रह्मणः परमेश्वरस्य ज्ञानात् (आ) समन्तात् (तृपत्) तृप्यन् सन् (पिब) पानं कुरु ॥

    इस भाष्य को एडिट करें
    Top