Loading...
अथर्ववेद > काण्ड 20 > सूक्त 7

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 20/ सूक्त 7/ मन्त्र 3
    सूक्त - सुकक्षः देवता - इन्द्रः छन्दः - गायत्री सूक्तम् - सूक्त-७

    स न॒ इन्द्रः॑ शि॒वः सखाश्वा॑व॒द्गोम॒द्यव॑मत्। उ॒रुधा॑रेव दोहते ॥

    स्वर सहित पद पाठ

    स: । न॒: । इन्द्र॑: । शि॒व: । सखा॑ । अश्व॑ऽवत् । गोऽम॑त् । यव॑ऽमत् । उ॒रुधा॑राऽइव । दो॒ह॒ते॒ ॥७.३॥


    स्वर रहित मन्त्र

    स न इन्द्रः शिवः सखाश्वावद्गोमद्यवमत्। उरुधारेव दोहते ॥

    स्वर रहित पद पाठ

    स: । न: । इन्द्र: । शिव: । सखा । अश्वऽवत् । गोऽमत् । यवऽमत् । उरुधाराऽइव । दोहते ॥७.३॥

    अथर्ववेद - काण्ड » 20; सूक्त » 7; मन्त्र » 3

    टिप्पणीः - ३−(सः) पूर्वोक्तः (नः) अस्मभ्यम् (इन्द्रः) परमैश्वर्यवान् सेनापतिः (शिवः) सुखप्रदः (सखा) मित्रभूतः (अश्ववत्) उत्तमाश्वयुक्तम् (गोमत्) उत्तमगोभिरुपेतम् (यवमत्) उत्तमान्नयुक्तं धनम् (उरुधारा) प्रभूतक्षीरधारायुक्ता गाः (इव) यथा (दोहते) लेटि, अडागमः। पूरयेत् ॥

    इस भाष्य को एडिट करें
    Top