Sidebar
अथर्ववेद - काण्ड 20/ सूक्त 7/ मन्त्र 1
उद्घेद॒भि श्रु॒ताम॑घं वृष॒भं नर्या॑पसम्। अस्ता॑रमेषि सूर्य ॥
स्वर सहित पद पाठउत् । घ॒ । इत् । अ॒भि । श्रु॒तऽम॑घम् । वृ॒ष॒भम् । नर्य॑ऽअपसम् ॥ अस्ता॑रम् । ए॒षि॒ । सू॒र्य॒ ॥७.१॥
स्वर रहित मन्त्र
उद्घेदभि श्रुतामघं वृषभं नर्यापसम्। अस्तारमेषि सूर्य ॥
स्वर रहित पद पाठउत् । घ । इत् । अभि । श्रुतऽमघम् । वृषभम् । नर्यऽअपसम् ॥ अस्तारम् । एषि । सूर्य ॥७.१॥
अथर्ववेद - काण्ड » 20; सूक्त » 7; मन्त्र » 1
सूचना -
कृपया अस्य मन्त्रस्यार्थम् आर्य(हिन्दी)भाष्ये पश्यत।
टिप्पणीः - मन्त्र १-३ ऋग्वेद में है-८।९३ [सायणभाष्य ८२]।१-३। मन्त्र १ साम० पू० २।४।१, मन्त्र १-३ साम० उ० ६।३। तृच० ४ ॥ १−(उद् एषि) ऊर्ध्वं गच्छसि (घ) अवश्यम् (इत्) एव (अभि) प्रति (श्रुतमघम्) प्रख्यातधनयुक्तम् (वृषभम्) बलवन्तम् (नर्यापसम्) अपः कर्मनाम-निघ० २।१। तस्मै हितम्। पा० ।१।। इति नर-यत्। नरेभ्यो हितकर्माणम् (अस्तारम्) असु क्षेपणे-तृन्। रधादिभ्यश्च। पा० ७।२।४। इति इड्विकल्पः। शत्रूणां निरसितारम्। क्षेप्तारम् (सूर्य) सृ गतौ यद्वा षू प्रेरणे यद्वा, सु+ईर गतौ-क्यप्। सूर्यः सर्तेर्वा सुवतेर्वा स्वीर्यतेर्वा-निरु० १२।१४। हे सर्वव्यापक सर्वप्रेरक वा परमेश्वर ॥
इस भाष्य को एडिट करें